Enter your Email Address to subscribe to our newsletters

कोलकाता, ०८ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदिनः नेतृत्वे स्वास्थ्य–क्षेत्रे सम्पन्नानाम् ऐतिहासिक–परिवर्तनानाम् उल्लेखं कुर्वन् भारतीय–जनता–दलस्य (भाजपा) राष्ट्रीय–अध्यक्षः तथा केन्द्रीय–स्वास्थ्य–मन्त्री जे.पी.–नड्डा पश्चिम–बङ्गाल–राज्यस्य तृणमूल–कांग्रेस–सर्वकारं प्रति तीव्रं प्रहारं कृतवान्। गुरुवासरे रात्रौ चिकित्सकानां एकस्य सम्मेलनस्य सम्बोधने सः अवदत् यत् दिल्ली–नगरे अरविन्द–केजरीवालः आयुष्मान–भारत–योजनां अस्वीकृतवान्, ततो जनतया तस्मै सत्तातः बहिर्गमनस्य मार्गः दर्शितः। पश्चिम–बङ्गालस्य मुख्यमन्त्री ममता–बनर्जी अपि एतां जन–कल्याणकारी–योजनां अस्वीकृतवती, २०२६–तमे वर्षे जनतया तस्या अपि समुचितम् उत्तरं दास्यते।चिकित्सक–सभा–सम्बोधने नड्डा अवदत् यत् विकसित–भारतस्य कल्पना तदैव साकारं भविष्यति, यदा देशस्य आधारः स्वस्थ–भारत इति संकल्पे प्रतिष्ठितः भविष्यति। सः अवदत् यत् गत–एकादश–वर्षेषु प्रधानमन्त्री–नरेन्द्र–मोदिनः नेतृत्वे स्वास्थ्य–क्षेत्रे अभूतपूर्वाः तथा ऐतिहासिकानि परिवर्तनानि अभवन्, येन देशस्य स्वास्थ्य–व्यवस्थायाः दिश: दशा च परिवर्तिते।सः अवदत् यत् २०१७–तमे वर्षे प्रवर्तिता राष्ट्रीय–स्वास्थ्य–नीतिः न केवलं चिकित्सापर्यन्तमेव, अपि तु निवारणात्मक–संवर्धनात्मक–उपचारात्मक– उपशामक–पुनर्वास–वृद्धावस्था–स्वास्थ्यस्य समग्र–अवधारणां स्वीकरोति। एषा नीति “सम्पूर्ण–सरकारी–दृष्टिकोणेन” आधारिताऽस्ति, यत्र सर्वे विभागाः संयुक्तरूपेण कार्यं कुर्वन्ति तथा मानव–स्वास्थ्यं, पशु–स्वास्थ्यं, पर्यावरणं, कृषिं च एकत्र दृष्ट्वा व्यवस्थापनं कुर्वन्ति।नड्डा सूचितवान् यत् देशे १.८१–लक्षाधिकानि आयुष्मान–आरोग्य–मन्दिराणि स्थापितानि सन्ति, यानि प्राथमिक–स्वास्थ्य–सेवानां मेरुदण्डानि अभवन्। एतानि केन्द्राणि त्रि–चतुः–सहस्र–जनसंख्यायै स्वास्थ्य–सेवाः प्रयच्छन्ति, अत्रैव सामान्य–नागरिकस्य स्वास्थ्य–परीक्षा, परामर्शः तथा उपचारस्य आरम्भः भवति। आशा–कार्यकर्तृभिः, सामुदायिक–स्वास्थ्य–अधिकारीभिः तथा पञ्चायत–प्रतिनिधिभिः सहकारेण ३०–वर्षात् अधिक–वयस्क–नागरिकानां नियमित–परीक्षणं क्रियते।सः अवदत् यत् कर्कट–रोगसदृशानां गम्भीर–रोगाणां समये एव परिचयाय राष्ट्रव्यापी–परीक्षण–अभियानं प्रवर्तितम्। अद्यावधि ४०–कोटि–जनानां मुख–कर्कट–परीक्षा, २०–कोटि–महिलानां स्तन–कर्कट–तथा गर्भाशय–ग्रीवा–कर्कट–परीक्षा सम्पन्ना अस्ति। एतत् केवलम् आरम्भः एव, अग्रिम–काले अस्य विस्तारः भविष्यति।मातृ–शिशु–स्वास्थ्यस्य विषये सः अवदत् यत् डिजिटल–व्यवस्थया गर्भावस्थात् आरभ्य १६–वर्ष–पर्यन्तं बालकानां टीकाकरणस्य पूर्ण–निरीक्षणं क्रियते। यदि कस्मै अपि बालकाय टीका न दीयते, तर्हि तत्क्षणं स्वास्थ्य–कर्मिभ्यः तथा प्रशासनाय सूचना प्रेष्यते, येन कोऽपि बालकः टीकाकरणात् वञ्चितः न भवेत्।नड्डा स्वास्थ्य–सूचकाङ्केषु जातानां संशोधनानाम् उल्लेखं कृत्वा अवदत् यत् संस्थागत–प्रसवेषु, मातृ–मृत्युदरे, शिशु–मृत्युदरे तथा पञ्च–वर्षात् न्यून–वयस्क–बाल–मृत्युदरे ऐतिहासिकः ह्रासः अभवत्। तपेदिक–मलेरिया–सदृशेषु रोगेषु अपि देशेन प्रभावी–नियन्त्रणं कृतम्, उपचार–सफलता–दरः वैश्विक–औसतात् अपि श्रेष्ठ: अभवत्।आयुष्मान–भारत–योजनायाः उल्लेखं कुर्वन् केन्द्रीय–मन्त्री अवदत् यत् एषा विश्वस्य सर्वाति–महती स्वास्थ्य–बीमा–योजना अस्ति, यस्याः अन्तर्गतं देशस्य ६३–कोटि–अधिकानां दरिद्र–वञ्चित–नागरिकाणां कृते पञ्च–लक्ष–रूप्यक–पर्यन्तं निःशुल्क–चिकित्सा–सेवा दीयते। सः खेदं प्रकटयन् अवदत् यत् केवलं राजनैतिक–कारणैः पश्चिम–बङ्गाल–निवासिनः अस्य लाभात् वञ्चिताः सन्ति, यदा देशस्य अन्येषु राज्येषु दरिद्राः जनाः एतस्य लाभं प्राप्नुवन्ति।सः अवदत् यत् २०२४–तमे वर्षे प्रधानमन्त्री–नरेन्द्र–मोदिनः ७०–वर्षात् अधिक–वयस्क–प्रत्येक–नागरिकाय, आय–सीमां विना, वार्षिक–स्वास्थ्य–सुरक्षां दातुम् ऐतिहासिकं निर्णयं कृतवान्। किन्तु पश्चिम–बङ्गालस्य वृद्ध–नागरिकाः अपि अस्मात् लाभात् वञ्चिताः सन्ति।नड्डा चिकित्सा–शिक्षायाम् अभूतपूर्व–परिवर्तनानाम् उल्लेखं कृत्वा अवदत् यत् चिकित्सा–महाविद्यालयानां तथा चिकित्सा–आसन–संख्यायाः ऐतिहासिक–वृद्धिः जाता, येन चिकित्सकानां न्यूनता अपाकृता अस्ति।सम्बोधनस्य अन्ते नड्डा अवदत् यत् प्रधानमन्त्री–नरेन्द्र–मोदिनः नेतृत्वे भारतस्य स्वास्थ्य–क्षेत्रम् अधुना निवारणात्मकं, समग्रं तथा डिजिटल–रूपेण परिवर्तितम् अस्ति। एतत् नव–भारतम् अस्ति, यः दरिद्र–वञ्चित–अन्तिम–पंक्ति–स्थित–जनपर्यन्तं स्वास्थ्य–सुविधानां विस्ताराय प्रतिबद्धः अस्ति। अग्रिम–काले जनतया अस्य आदर्श–नमूनाया: दृढतरं समर्थनं प्रदास्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता