जयशङ्करः पेरिस–नगरे जर्मनी–फ्रान्स–पोलैण्ड–देशैः सह इण्डो–पैसिफिक–क्षेत्रस्य समस्यासु चर्चां कृतवान्, भारतस्य दृष्टिकोणं प्रतिपादितवान्
पेरिसदेश: (फ्रान्स), ०८ जनवरीमासः (हि.स.)। फ्रान्स–देशस्य यात्रायां स्थितः भारतस्य विदेश–मन्त्री डॉ.एस.जयशङ्करः प्रथमवारं वाइमर–समूहस्य (जर्मनी, फ्रान्स, पोलैण्ड) समकक्ष–विदेश–मन्त्रिभिः सह वैश्विक–विषयेषु विस्तृतां चर्चां कृतवान्। अस्मिन् संवादे
86a00934dea9c0ecb65bd6d322d61123_864763269.jpg


पेरिसदेश: (फ्रान्स), ०८ जनवरीमासः (हि.स.)। फ्रान्स–देशस्य यात्रायां स्थितः भारतस्य विदेश–मन्त्री डॉ.एस.जयशङ्करः प्रथमवारं वाइमर–समूहस्य (जर्मनी, फ्रान्स, पोलैण्ड) समकक्ष–विदेश–मन्त्रिभिः सह वैश्विक–विषयेषु विस्तृतां चर्चां कृतवान्।

अस्मिन् संवादे डॉ.जयशङ्करः भारत–यूरोपीय–संघ–सम्बन्धानां सुदृढीकरणं तथा इण्डो–पैसिफिक–(हिन्द–प्रशान्त)–क्षेत्रस्य समस्यासु विचार–विनिमयं कृतवान्।डॉ.जयशङ्करः एक्स–माध्यमे छायाचित्रैः सह एतां सूचनां दत्तवान्। सः अवदत् यत् अस्मिन् संवादे यूक्रेन–सङ्घर्ष–विषये अपि विचाराः आदान–प्रदानं कृताः।

भारत–देशेन स्पष्टे तथा मुक्त–संवादे एतेषु विषयेषु स्वस्य दृष्टिकोणं प्रतिपादितम्। सभायाः अनन्तरं संयुक्त–संवाददाता–सम्मेलनेन वाइमर–समूहस्य तथा भारतस्य विचारेण विश्वाय अवगतः कृतः।

अस्मात्पूर्वं डॉ.जयशङ्करः फ्रान्स–देशस्य विदेश–मन्त्री जीन–नोएल–बैरट–महाशयेन सह साक्षात्कारं कृत्वा अवदत् यत् यूरोपः वैश्विक–स्तरे महत्त्वपूर्णः क्रीडाकः अस्ति, तथा भारत–यूरोप–सम्बन्धानां सुदृढीकरणम् अत्यावश्यकम्।भारत–फ्रान्स–देशौ वैश्विक–राजनीत्यां तथा अर्थव्यवस्थायां स्थैर्यं स्थापयितुं समर्थौ स्तः इति सः स्पष्टतया उक्तवान्।

जयशङ्करः सूचितवान् यत् अग्रिमेषु सप्ताहेषु भारत–देशः जर्मनी–देशस्य चान्सलरं फ्रेडरिक–मेर्ज–महाशयं, फ्रान्स–देशस्य राष्ट्रपतिं इमैनुएल–मैक्रो–महाशयं, तथा यूरोपीय–संघस्य शीर्ष–नेतॄन् आतिथ्येन स्वीकर्तुम् उद्यतः भविष्यति। उल्लेखनीयं यत् इण्डो–पैसिफिक–क्षेत्रम् उदयोन्मुखं भू–राजनैतिकं तथा आर्थिकं केन्द्रम् अस्ति।

अस्मिन् क्षेत्रे हिन्द–महासागरः तथा प्रशान्त–महासागरः च अन्तर्भूतौ स्तः, तथा पूर्व–आफ्रिका–तटात् पश्चिम–प्रशान्त–महासागर–पर्यन्तं विस्तीर्णः अयम् प्रदेशः अस्ति। अत्र विश्वस्य बहुसंख्यक–जनसंख्या तथा प्रमुखा अर्थव्यवस्था केन्द्रीभूता अस्ति।

भारत, चीन, अमेरिका, जापान, ऑस्ट्रेलिया इत्यादयः देशाः अस्मिन् क्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहन्ति।व्यापारः, समुद्री–मार्गाः, सुरक्षा च अस्य क्षेत्रस्य प्रमुखाः आयामाः सन्ति। वैश्विक–शक्ति–सन्तुलनस्य तथा समुद्री–सुरक्षायाः दृष्ट्या एतत् क्षेत्रम् अत्यन्तं महत्त्वपूर्णं मन्यते।

भारत–देशः इण्डो–पैसिफिक–क्षेत्रं“मुक्तं, समावेशी च” इति स्वरूपेण पश्यति।आई.पी.ओ.आई. (Indo–Pacific Ocean Initiative) इति भारतीयप्रयत्न: समुद्री–सुरक्षायाः तथा सहयोगस्य सुदृढीकरणाय प्रवर्तते। अमेरिका–देशेन अपि आई.पी.ई.एफ. (Indo–Pacific Economic Framework)इति आर्थिक–सहयोग–नमूना आरब्धा,यस्मिन् १४ देशाः सम्मिलिताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता