सर्वकारिविद्यालयान् सशक्तान् कर्तुं प्रदेश सर्वकारस्य प्राथमिकता : कृषि मंत्री
धर्मशाला, 08 जनवरीमासः (हि.स.)। कृषि–पशुपालनमन्त्री प्रो. चन्द्रकुमारः गुरुवासरे ज्वाली–विधानसभा–क्षेत्रे स्थिते राजकीय–उच्चविद्यालये बग्गा इत्यत्र ५६.३३ लक्षरूप्यकव्ययेन निर्मीयमाणस्य अतिरिक्तभवनस्य शिलान्यासं कृतवान्। अस्मिन् भवने पञ्च कक्षाणां
सर्वकारिविद्यालयान् सशक्तान् कर्तुं प्रदेश सर्वकारस्य प्राथमिकता : कृषि मंत्री


धर्मशाला, 08 जनवरीमासः (हि.स.)।

कृषि–पशुपालनमन्त्री प्रो. चन्द्रकुमारः गुरुवासरे ज्वाली–विधानसभा–क्षेत्रे स्थिते राजकीय–उच्चविद्यालये बग्गा इत्यत्र ५६.३३ लक्षरूप्यकव्ययेन निर्मीयमाणस्य अतिरिक्तभवनस्य शिलान्यासं कृतवान्। अस्मिन् भवने पञ्च कक्षाणां निर्माणं भविष्यति, येन विद्यालये अध्ययनरतानां विद्यार्थिनां कृते उत्तमतरं शैक्षणिकं वातावरणं उपलब्धं भविष्यति।

अस्मिन् अवसरॆ कृषि–मन्त्रिणा उक्तं यत् प्रदेशसरकारस्य लक्ष्यं सर्वान् राजकीयविद्यालयान् आधुनिकसुविधाभिः सुसज्जितान् कृत्वा तान् निजीविद्यालयैः समकक्षान् कर्तुम् अस्ति, येन प्रत्येकस्मै बालकाय गुणवत्तापूर्णा शिक्षा उपलब्धा भवेत्। तेन उक्तं यत् ज्वाली–विधानसभा–क्षेत्रस्य राजकीयविद्यालयेषु उत्तमानि भवनानि, क्रीडाङ्गणानि, मञ्चाः अन्याश्च सुविधाः निर्मातुं लक्षाधिकं रूप्यकव्ययः क्रियते, येन ग्रामीणप्रदेशेषु स्थितानां बालकानां कृते श्रेष्ठाः सुविधाः सुलभाः भवन्ति।

कृषिमन्त्री अवदत् यत् शिक्षाप्रसारार्थं सर्वाः सरकाराः समये समये प्रयासान् कृतवन्तः, किन्तु अधुना प्रदेशसरकारस्य विशेषः ध्यानं शिक्षायाः गुणवत्तायां केन्द्रितम् अस्ति। तेन अवगतं कृतं यत् राजकीयविद्यालयेषु प्रथमकक्षात् आरभ्य आङ्ग्लमाध्यमस्य आरम्भः कृतः अस्ति, येन बालकाः भविष्यस्य प्रतिस्पर्धात्मकचुनौतिषु स्वयम् समर्थाः भवितुं शक्नुवन्ति। तेन अपि सूचितं यत् प्रदेशसरकारेण राज्यस्य ८५० शिक्षणसंस्थानानि “उत्कृष्ट–शिक्षणसंस्थान”रूपेण विकसितानि क्रियमाणानि सन्ति। ज्वाली–विधानसभा–क्षेत्रस्य ठङ्गर–स्थले राजीव–गान्धी–डे–बोर्डिङ्ग–विद्यालयस्य निर्माणकार्यं अपि शीघ्रगत्या प्रचलति, येन क्षेत्रस्य विद्यार्थिनां कृते गुणवत्तापूर्णा शिक्षा उपलब्धा भविष्यति।

तथैव तेन उक्तं यत् ज्वाली–विधानसभा–क्षेत्रस्य विद्यार्थिनां उच्चशिक्षाप्राप्त्यर्थं नगरोटा–सूरियां–स्थले डिग्री–महाविद्यालयस्य निर्माणं पूर्वविधायकस्य नीरज–भारतीस्य कार्यकाले सम्पन्नम् आसीत्, यत् अद्य क्षेत्रस्य युवजनानां कृते वरदानरूपेण सिद्धम् अस्ति। ज्वाली–डिग्री–महाविद्यालयस्य नवीनभवनस्य निर्माणकार्यं अपि शीघ्रमेव आरभ्यते, येन महाविद्यालये अध्ययनरतानां छात्राणां कृते उत्तमाः सुविधाः उपलब्धाः भविष्यन्ति।

अस्मिन् अवसरे छात्राभिः सांस्कृतिकाः प्रस्तुतयः अपि प्रदत्ताः। ताः प्रोत्साहयन् कृषिमन्त्री स्वीय–ऐच्छिक–निधेः १५ सहस्र–रूप्यकदानस्य घोषणां कृतवान्। अस्मिन् कार्यक्रमे एस्.डी.एम् नरेन्द्र–जरियालः, विविधविभागानां अधिकारिणः, कर्मचारिणः, अभिभावकाः तथा विद्यार्थिनश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार