Enter your Email Address to subscribe to our newsletters

नेतृ प्रतिपक्षस्य उमंग सिंगारस्य वक्तव्ये भाजपा विधायकस्य प्रतिवारम्
भोपालम्, 08 जनवरीमासः (हि.स.)।
इन्दौर-जनपदस्य अधिकारिणः संघकार्यालयगमनं प्रति काङ्ग्रेसदलेन व्यक्तायाः आपत्तेः विषये विधायकः रामेश्वर शर्मा प्रत्युत्तरं दत्तवान्। तेन उक्तं यत् संघकार्यालयं ते एव जनाः गच्छन्ति ये भारतमातुः जयजयकारं कर्तुं जानन्ति। सः अवदत् यत् काङ्ग्रेसदलस्य अपि विपक्षनेतारं उमङ्गसिङ्गारं प्रति वयं वक्तुम् इच्छामः— कः तं निरोद्धुं शक्नोति। सः अपि संघकार्यालयं गच्छतु सत्सङ्गं च करोतु।
भोपालनगरस्य हुजूर-विधानसभा-निर्वाचनक्षेत्रात् भाजपादलस्य विधायकः रामेश्वर शर्मा गुरुवासरे प्रातःकाले माध्यमैः सह संवादं कुर्वन् मध्यप्रदेश-विधानसभायाः विपक्षनेतुः उमङ्गसिङ्गारस्य वक्तव्यं प्रत्युत्तररूपेण आलोचितवान्। तेन उक्तं यत् यदा काङ्ग्रेसस्य शासनं आसीत् तदा कलेक्टराः केन अधिकाररूपेण काङ्ग्रेसकार्यालयं गच्छन्ति स्म। सोनिया-गान्धी यदि कञ्चन जनं आह्वयति स्म तदा सा केन अधिकारेण आह्वयति स्म। सा तु यूपीए-संघस्य अध्यक्षरूपेण सम्पूर्णहिन्दुस्थानस्य सुरक्षा-परिषदं प्रति निर्देशान् ददाति स्म— सा केन अधिकारेण एतत् करोति स्म इति प्रश्नः तेन कृतः।
रामेश्वर शर्मा अवदत् यत् राष्ट्रीयस्वयंसेवकसंघः व्यक्तीनां न चिन्तयति, अपि तु राष्ट्रस्य चिन्तां करोति। न सः कस्यचित् पदोन्नत्यै न च पदावनत्यै चिन्तयति। यदा सः चिन्तयति तदा सः हिन्दुस्थानस्य तिरङ्गस्य च हिताय एव चिन्तयति। अतः भारतदेशस्य कश्चन पुलिस-अधीक्षकः स्यात्, कलेक्टरः स्यात्, नेता स्यात् अथवा सामान्यनागरिकः स्यात्— तस्य संघकार्यालयगमने काचित् आपत्तिः न भवितव्या। काङ्ग्रेसदलेन अपि जनाः गच्छन्तु, कः तान् निरोद्धुं शक्नोति। अस्माकं तत्र कापि आपत्तिः नास्ति। येषां मनसि रोचते ते संघकार्यालयं गच्छन्ति। संघकार्यालयं ते एव जनाः गच्छन्ति ये भारतमातुः जयजयकारं कर्तुं जानन्ति।
उल्लेखनीयं यत् मध्यप्रदेश-विधानसभायाः विपक्षनेता उमङ्गसिङ्गारः इन्दौर-जनपदस्य कलेक्टरस्य शिवम्-वर्मणः संघकार्यालयगमनं प्रति आपत्तिं व्यक्त्वा डीओपीटी-विभागे परिवादंकर्तुम् उक्तवान् आसीत्।
---------------
हिन्दुस्थान समाचार