पर्यावरणविदः माधव–गाडगिल–महाभागस्य पुणे–नगरे निधनम्, गडकरी–महाभागादिभिः अनेकैः प्रमुख–नेतृभिः शोकः व्यक्तः
नवदिल्ली, ०८ जनवरीमासः (हि.स.)। प्रख्यातः पर्यावरणविदः माधव–गाडगिल–महाभागः बुधवासरे रात्रौ महाराष्ट्र–राज्यस्य पुणे–नगरे स्थिते स्वावासे देहावसानं कृतवान्। सः द्व्यशीतितमवर्षीयः आसीत्। तस्य पुत्रः सिद्धार्थ–गाडगिल–महाभागः गुरुवासरे “एक्स”–माध्यमे प
प्रख्यात पार्यावरणविद माधव गाडगिल


नवदिल्ली, ०८ जनवरीमासः (हि.स.)। प्रख्यातः पर्यावरणविदः माधव–गाडगिल–महाभागः बुधवासरे रात्रौ महाराष्ट्र–राज्यस्य पुणे–नगरे स्थिते स्वावासे देहावसानं कृतवान्। सः द्व्यशीतितमवर्षीयः आसीत्। तस्य पुत्रः सिद्धार्थ–गाडगिल–महाभागः गुरुवासरे “एक्स”–माध्यमे प्रकाशितेन लेखनेन अस्य निधनस्य पुष्टिं कृतवान्। तस्य अन्त्येष्टिः गुरुवासरे सायं चतुर्वादने पुणे–नगरस्य वैकुण्ठ–श्मशान–घट्टे भविष्यति।केन्द्रीय–मार्ग–परिवहन–राजमार्ग–मन्त्री नितिन–गडकरी–महाभागः, महाराष्ट्र–मुख्यमन्त्री देवेन्द्र–फडणवीस–महाभागः, कांग्रेस–अध्यक्षः मल्लिकार्जुन–खरगे–महाभागः इत्यादयः अनेके प्रमुख–व्यक्तयः तस्य निधनस्य विषये गहनं शोकं व्यक्तवन्तः।गडकरी–महाभागः अवदत् यत् गाडगिल–महाभागः स्वजीवनस्य सम्पूर्णं कालं पर्यावरण–चेतनायाः संवर्धनाय तथा पश्चिम–घाट–पर्वत–श्रृङ्खलायाः जैव–विविधता–संरक्षणाय समर्पितवान्। तस्य योगदानं केवलं भारत–सीमायां न सीमितम् आसीत्, अपि तु अन्ताराष्ट्रिय–स्तरे अपि प्रशंसितम्। यथा सः पर्यावरण–जैवविविधता–विषयान् जन–चेतनया सह संयोजितवान्, तत् आगामि–सन्ततिनां कृते प्रेरणा–स्रोतः भविष्यति। तस्य निधनं देशाय अपूरणीय–क्षतिः अस्ति।कांग्रेस–अध्यक्षः खरगे–महाभागः अवदत् यत् गाडगिल–महाभागस्य निधनात् भारतं पारिस्थितिकी–अनुसन्धानस्य प्रमुखां वाणीं हृतवान्। सः वैज्ञानिक–साक्ष्येषु आधारितानां संरक्षण–कार्याणां रूपान्तरे महत्त्वपूर्णां भूमिकां निभृतवान्। पद्मभूषण–पुरस्कार:, शान्ति–स्वरूप–भटनागर–पुरस्कारः, कर्नाटक–राज्योत्सव–पुरस्कारः च इत्यादिभिः सम्मानितः सः अनुसन्धानं, शिक्षणं, संरक्षणं च इत्येतेषु सम्यक् परिचयं स्थापितवान्। तस्य जीवन–कार्यम् अस्मान् शिक्षयति यत् विज्ञान–समाजयोः मध्ये सेतु–निर्माणेन एव स्थायी–विकासः सम्भवः।मुख्यमन्त्री फडणवीस–महाभागः अवदत् यत् गाडगिल–महाभागः भारतदेशे पर्यावरण–जनजागरण–संरक्षणयोः अग्रणी–नाम आसीत्। पश्चिम–घाट–संरक्षणे तस्य कार्यं विशेषतया उल्लेखनीयम्। भारतस्य जैव–विविधता–अधिनियमस्य शिल्पकाररूपेण सः सदा स्मरणीयः भविष्यति। सः केवलं लेखन–प्रबोधनयोः एव न सीमितः आसीत्, अपि तु स्थानीय–समुदायान् संयोज्य प्राकृतिक–संसाधनानां समुचित–उपयोगस्य मार्गं दर्शितवान्।कांग्रेस–महासचिवा प्रियङ्का–गान्धी–महाभागा अवदत् यत् गाडगिल–महाभागः प्रकृतेः तथा सामाजिक–न्यायस्य करुणामयी वाणी आसीत्। तस्य जीवन–कार्यम् अग्रिमसन्ततिनां प्रेरणास्रोतः भविष्यति। सः अस्मान् शिक्षितवान् यत् पर्यावरण–संरक्षणं केवलं वैज्ञानिकानां विषयः न, अपि तु समाजस्य सर्वेषां वर्गाणाम् उत्तरदायित्वम् अस्ति।राजस्थान–राज्यस्य पूर्व–मुख्यमन्त्री अशोक–गहलोत–महाभागः अवदत् यत् पश्चिम–घाट–संरक्षणे गाडगिल–महाभागस्य योगदानं सदा स्मरणीयं भविष्यति। कांग्रेस–नेता जयराम–रमेश–महाभागः तं श्रेष्ठं वैज्ञानिकं, संस्थान–निर्मातारं, पारम्परिक–ज्ञान–प्रणालीनां समर्थकं च इति वर्णितवान्।कांग्रेस–सांसदः शशि–थरूर–महाभागः अवदत् यत् गाडगिल–महाभागः भारतीय–पारिस्थितिकी–क्षेत्रस्य महानायकः आसीत्। तस्य प्रतिवेदनं केरल–राज्ये जैव–विविधता–संरक्षणं तथा आजीविका–सन्तुलनं विषये गम्भीरां चर्चाम् अजनयत्। तस्य दूरदर्शिता–विवेकौ अद्यापि अस्मान् मार्गदर्शयतः।बारामती–सांसदः सुप्रिया–सुले–महाभागा अवदत् यत् गाडगिल–महाभागः भारतदेशे पर्यावरणवादस्य आधारम् अस्थापयत्। पश्चिम–घाट–जैव–विविधता–संरक्षणे तस्य योगदानम् अमूल्यम्। तस्य निधनात् पर्यावरण–जैवविविधता–क्षेत्रे दिशानिर्देशकः एकः विज्ञ–व्यक्तित्वं नष्टम्।इतिहासकारः रामचन्द्र–गुहा–महाभागः अवदत् यत् गाडगिल–महाभागः आदर्शः वैज्ञानिकः नागरिकश्च आसीत्। सः मम मित्रं मार्गदर्शक: च आसीत्। तस्य व्यक्तित्वं ज्ञान–विनय–सहृदयतायाः अद्वितीयं संगमम् आसीत्। सः केवलं वैज्ञानिकः न, अपि तु समाजाय सजगः नागरिकः अपि आसीत्। तस्य निधनं मम कृते व्यक्तिगत–क्षतिः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता