Enter your Email Address to subscribe to our newsletters

मंडी, 08 जनवरीमासः (हि.स.)।
एनीमिया, मधुमेहः, स्थौल्यं उच्चरक्तचापः इत्यादीनां पोषणसम्बद्धविकाराणां निवारणे उपचारणे च आयुर्वेदिकाहारस्य, पाचनशक्तेः तथा पारम्परिकभोजनस्य भूमिकां केन्द्रं कृत्वा आयोजितस्य द्विदिवसीयस्य राष्ट्रियसेमिनारस्य ‘न्यूट्री कॉन् २०२६’ इत्यस्य शुभारम्भः क्षेत्रीय–आयुर्वेद–अनुसन्धान–संस्थाने, जरल–पण्डोह–स्थले कृतः। अस्मिन् सेमिनारे देशस्य विविधभागेभ्यः आगताः विशेषज्ञाः आयुर्वेदाधारितपोषणं, अनुसन्धानं तथा नीतिगतविषयान् अधिकृत्य विचारविमर्शं कुर्वन्ति।
सत्रस्य अध्यक्षतां कुर्वन् प्रो. वैद्य के. एस. धीमानः पोषणसम्बद्धविकाराणां सन्दर्भे अग्नेः, अर्थात् पाचनशक्तेः, महत्त्वं विशेषतया प्रतिपादयन् स्थानीयं पारम्परिकं च आहारं स्वस्थजीवनशैल्याः आधाररूपेण निरूपितवान्।
सत्रस्य सहाध्यक्षः डॉ. ओमराज शर्मा, पूर्वसहायकनिदेशकः, क्षेत्रीय–आयुर्वेद–अनुसन्धान–संस्थानं, पण्डोहं, भारतदेशे पोषणसम्बद्धसमस्यानां वर्धमानपरिस्थितीनां समाधानाय आयुर्वेदिक–आहारनियमावल्याः आवश्यकतां प्रकाशितवत्।
प्रथमदिवसस्य प्रातःकालीनसत्रे नीति–आयोगात्, नयी–दिल्लीतः, डॉ. शोभितेन साक्ष्याधारितं आयुर्वेदिकपोषणं तथा पोषणसम्बद्धविकाराणां कृते आयुष्–आधारितनीतिषु स्वविचाराः प्रस्तुताः। तेन उक्तं यत् आयुर्वेदाधारिताः नीतयः एनीमिया, मधुमेह, स्थौल्यम् इत्यादीनां वर्धमानस्वास्थ्यसमस्यानां समाधानाय प्रभावी भूमिकां निर्वहन्ति।
राष्ट्रिय–आयुर्वेद–संस्थानात्, जयपुरतः, डॉ. हरीश भाकुनीनः कुपोषणस्य, स्थौल्यस्य, मधुमेहस्य च व्यवस्थापने यवस्य, आमलकस्य, आर्द्रकस्य तथा मुद्गस्य उपयोगे आधारितानि वैज्ञानिकानुसन्धानपरिणामानि प्रस्तुतानि।
अपराह्णसत्रे आयोजितासु मौखिक–फलक–प्रस्तुतिषु समग्रेण द्विचत्वारिंशत् (४२) प्रतिभागिभिः स्वस्वअनुसन्धानकार्याणि प्रस्तुतानि, येषु पोषणसम्बद्धविकाराणां आयुर्वेदिकसमाधानैः सम्बन्धिताः विविधविषयाः समाविष्टाः आसन्।
अस्मिन् अवसरे प्रभारीसंस्थानप्रमुखा डॉ. विनीता नेगी, डॉ. प्रदीपः (प्राध्यापकः), राजीव–गान्धी–स्नातकोत्तर–आयुर्वेद–महाविद्यालयः, पपरोला, अनुसन्धानाधिकारी डॉ. कविता व्यास, डॉ. अनुभा चांदला, डॉ. शोभितः, मनोज रतुरी इत्यादयः अन्ये च आयुर्वेदविशेषज्ञाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार