Enter your Email Address to subscribe to our newsletters

कूचविहार:, ०८ जनवरीमासः (हि.स.)। पश्चिम–बङ्गाल–प्रदेशे भारतीय–जनता–दलस्य (भा.ज.पा.) नवीन–प्रदेश–कार्यसमितेः घोषणा एकदिन–पूर्वमेव कृता।एतस्यां ३५–सदस्यात्मिकायां कार्यसमितौ राजवंशी–समुदायात् आगतः पूर्व–केन्द्रीय–राज्य–मन्त्री निशीथ–प्रमाणिक–महाशयः प्रदेश–उपाध्यक्ष–पदे नियुक्तः कृतः।राजनीतिक–विश्लेषकाः मन्यन्ते यत् २०२६–तमे वर्षे विधानसभानिर्वाचनात् पूर्वं उत्तर–बङ्गाल–क्षेत्रे भा.ज.पा.–संगठनस्य सुदृढीकरणाय तथा राजवंशी–मतदाता–वर्गस्य एकत्रीकरणाय एषा नियुक्तिः रणनीतिरूपेण कृता अस्ति।२०२४–तमे वर्षे लोकसभा–निर्वाचनपराजयानन्तरं दीर्घकालं यावत् निशीथ–प्रमाणिक–महाशयः दल–गतिविधिषु विशेषतया सक्रियः न दृष्टः।कूचविहार–क्षेत्रे आक्रमण–पीडितानां दल–कार्यकर्तृभि: सह तस्य दूरी–विषये दलस्य केचन सदस्याः प्रश्नान् अपि उत्थापितवन्तः।किन्तु विधानसभानिर्वाचनस्य समीपागमनकाले, गतमासे सः पुनः सक्रियः दृश्यते।विशेषतः विशेष–गहन–पुनरीक्षणम् (SIR) इत्यादिषु विषयेषु तस्य आन्दोलनात्मकं नेतृत्वं दृष्टम् अस्ति।प्रदेश–उपाध्यक्ष–पदप्राप्त्या तस्य जनपद–राजनीत्यां स्थितिः अधिका सुदृढा अभवत्।कूचविहार–क्षेत्रे तृणमूल–काङ्ग्रेस–दलस्य प्रभावशाली–नेता उदयन–गुहा–महाशयस्य सम्मुखे भा.ज.पा.–दलस्य प्रमुख–मुखरूपेण निशीथ–प्रमाणिक–महाशयः एव दृश्यते।दल–सूत्राणां मतम् अस्ति यत् उत्तर–बङ्गाल–क्षेत्रस्य स्थानानां पुनः–प्राप्त्यर्थं केन्द्रीय–नेतृत्वं निशीथ–प्रमाणिक–महाशयम् अग्रे स्थापयित्वा निर्वाचन–रणनीतिं निर्मातुम् इच्छति।नवीन–उत्तरदायित्व–प्राप्त्यनन्तरं निशीथ–प्रमाणिक–महाशयः अवदत्—“अहं भा.ज.पा.–दलस्य एकनिष्ठः सैनिकः अस्मि। पदं मम कृते सर्वोपरि नास्ति।दलस्य महान्तम् उत्तरदायित्वं यत् मम हस्ते समर्पितं, तं पूर्ण–निष्ठया निर्वहिष्यामि।केवलं कूचविहार–नगरे एव न, अपि तु २०२६–तमे वर्षे सम्पूर्णे पश्चिम–बङ्गाल–प्रदेशे भा.ज.पा.–विजयस्य सुनिश्चितीकरणमेव अस्माकम् एकमेव लक्ष्यं।”इदानीं सर्वेषां दृष्टिः अस्मिन् विषये केन्द्रीभूता अस्ति यत् निशीथ–प्रमाणिक–महाशयस्य एषा नवीना राजनीतिक–पारी उत्तर–बङ्गाल–प्रदेशस्य राजनीतिक–समीकरणं कस्मिन् दिशि नेष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता