Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 08 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे अवदत् यत् स्टार्टअप्-संस्थाः तथा कृत्रिमबुद्धिमत्ता उद्यमिनः भारतस्य भविष्यस्य सहनिर्मातारः सन्ति। तेन विशेषतया प्रतिपादितं यत् भारतीयाः कृत्रिमबुद्धिमत्ता-आदर्शाः स्थानीयेन स्वदेशीयेन च सामग्रीना सह क्षेत्रीयभाषासु अपि प्रवर्धनीयाः।
अद्य नयी-दिल्ल्यां स्थिते स्वस्य शासकीयावासे लोककल्याणमार्गे सप्तमे स्थाने आयोजितायां द्वादशभारतीयकृत्रिमबुद्धिमत्ता-स्टार्टअप्-संस्थानां गोलमेजसम्मेलने अध्यक्षतां कुर्वन् प्रधानमन्त्री एतानि वचनानि अवदत्। एतानि स्टार्टअप्-संस्थानि आगामिनि इण्डिया एआई इम्पैक्ट् सम्मेलने २०२६ आयोजिते “एआई फॉर ऑल् ग्लोबल् इम्पैक्ट् चैलेञ्ज्” इति कार्यक्रमाय चयनितानि सन्ति।
सम्मेलनस्य समये प्रधानमन्त्री पुनः बलं दत्तवान् यत् भारतदेशे नवोन्मेषस्य तथा व्यापकस्तरे प्रौद्योगिकीकार्यन्वयनस्य विपुला सम्भावना विद्यते। तेन उक्तं यत् भारतः विश्वस्य पुरतः “मेड् इन् इण्डिया मेड् फॉर् द वर्ल्ड्” इति भावनां प्रतिबिम्बयन्तं विशिष्टं कृत्रिमबुद्धिमत्ता-आदर्शं प्रस्तोतुं शक्नोति। सः अपि अवदत् यत् कृत्रिमबुद्धिमत्ता समाजे व्यापकपरिवर्तनं कर्तुं समर्था अस्ति तथा आगामिनि मासे आयोजितेन इण्डिया एआई इम्पैक्ट् सम्मेलनेन भारतः वैश्विकप्रौद्योगिकीपरिदृश्ये महत्त्वपूर्णां भूमिकां निर्वहिष्यति। भारतः कृत्रिमबुद्धिमत्तायाः प्रभावीप्रयोगेन परिवर्तनाय निरन्तरं प्रयत्नं करोति इति अपि तेन रेखाङ्कितम्।
प्रधानमन्त्रिणा विशेषतया प्रतिपादितं यत् भारतीयाः कृत्रिमबुद्धिमत्ता-आदर्शाः नैतिकतायाः निष्पक्षतायाः पारदर्शितायाः तथा दत्तांशगोपनीयतायाः सिद्धान्तेषु आधारिताः भवितव्याः। तेन सुझावः दत्तः यत् एते आदर्शाः स्थानीयं स्वदेशीयं च सामग्रीं क्षेत्रीयभाषाश्च प्रवर्धयेयुः। अपि च स्टार्टअप्-संस्थाः वैश्विकनेतृत्वस्य दिशि कार्यं कुर्वन्तु तथा अल्पव्ययसमावेशीमितव्ययी-नवोन्मेषं अग्रे नयेयुः इति तेन आह्वानं कृतम्।
तदेव सह प्रधानमन्त्री कृत्रिमबुद्धिमत्ता-स्टार्टअप्-संस्थानान् उद्यमिनश्च आश्वासितवान् यत् तेषां कृत्रिमबुद्धिमत्ता-आदर्शानां सफलतायै शासनतर्फेण सर्वसम्भवः सहयोगः प्रदास्यते।
गोलमेजसम्मेलने सम्मिलिताः कृत्रिमबुद्धिमत्ता-स्टार्टअप्-संस्थाः भारतदेशे कृत्रिमबुद्धिमत्ता-परिसंस्थां सुदृढीकर्तुं शासनस्य प्रतिबद्धतां प्रशंसितवन्तः। तैः उक्तं यत् कृत्रिमबुद्धिमत्ता-क्षेत्रे तीव्रविकासस्य कारणेन नवोन्मेषस्य कार्यन्वयनस्य च वैश्विककेन्द्रं भारतदेशं प्रति स्थानान्तरं गच्छति। एतैः भारतीयैः स्टार्टअप्-संस्थाभिः प्रधानमन्त्रिणः पुरतः स्वस्वनवोन्मेषाः विचाराः अद्यावधि कृतानि कार्याणि च प्रस्तुतानि।
एतानि स्टार्टअप्-संस्थानि भारतीयभाषाफाउण्डेशन-आदर्शे बहुभाषिक-एलएलएम् वाक्यश्रवणात् लेखनं लेखनात् श्रवणं लेखनात् दृश्यकं जनरेटिव्-कृत्रिमबुद्धिमत्ता-आधारितं त्रिआयामी-सामग्री-निर्माणं स्वास्थ्यसेवायां निदानकार्यं चिकित्सकीयशोधः अभियान्त्रिकानुकरणं उन्नतदत्तांशविश्लेषणं च इत्यादिषु विविधक्षेत्रेषु कार्यं कुर्वन्ति।
अस्मिन् अवसरे अवतार् भारतजेन् फ्रैक्टल् गैन् जेनलूप् ज्ञानि इण्टेलीहेल्थ् सर्वम् शोध् एआई सोकेट् एआई टेक् महिन्द्रा ज़ेन्टेक् इत्यादीनां संस्थानां प्रतिनिधयः उपस्थिताः आसन्। तदेव सह केन्द्रीय-इलेक्ट्रॉनिक्स-सूचनाप्रौद्योगिकीमन्त्री अश्विनी वैष्णवः राज्य मन्त्री जितिन प्रसादश्च उपस्थितौ आस्ताम्।
---------------
हिन्दुस्थान समाचार