Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 08 जनवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी वेदान्ताग्रुपस्य अध्यक्षस्य अनिलअग्रवालस्य ज्येष्ठपुत्रस्य अग्निवेशअग्रवालस्य असामयिकनिधने गाढं शोकं व्यक्तवान्। अग्निवेशअग्रवालस्य न्यूयॉर्कनगरे एकोनपञ्चाशद्वर्षीयावस्थायां निधनं अभवत्। अनिलअग्रवालेन एक्स-माध्यमे प्रदत्तायां सूचनायां प्रत्युत्तररूपेण प्रधानमन्त्री मोदीः एक्स-माध्यमे लिखितवान्, “श्रीअग्निवेशअग्रवालस्य असामयिकं निधनं अत्यन्तं स्तब्धकरं दुःखदं च अस्ति। अस्य भावपूर्णश्रद्धाञ्जल्यां भवतः गाढशोकस्य स्पष्टा झलक दृश्यते। प्रार्थये यत् भवतः परिवारस्य च निरन्तरं शक्तिः साहसं च लभ्येताम्। ॐ शान्तिः।” उल्लेखनीयं यत् अग्निवेशअग्रवालस्य जन्म ३ जून १९७६ तमे दिने पटनानगरे अभवत्। सः अजमेरनगरे स्थितात् मेयोमहाविद्यालयात् शिक्षां प्राप्तवान् तथा च फुजैराहगोल्डसंस्थायाः स्थापकः आसीत्। सः हिन्दुस्तानजिङ्ककम्पन्याः अध्यक्षपदेऽपि कार्यं कृतवान्।
---------------
हिन्दुस्थान समाचार