पाकिस्तान–सर्वकारः इमरान–खान–दलेन सह संवादाय सज्जः
इस्लामाबादनगरम्, ०८ जनवरीमासः (हि.स.)। पाकिस्तान–देशस्य प्रधानमन्त्री शहबाज–शरीफः सर्वकारस्य तथा अपदस्थ–प्रधानमन्त्रिणः इमरान–खानस्य दलस्य पाकिस्तान–तहरीक–ए–इन्साफ (पी.टी.आई.) इत्यस्य मध्ये संवादाय अनुमतिं दत्तवान् अस्ति। प्रधानमन्त्रिणा सभाध्यक्षः
पाकिस्तान के प्रधानमंत्री शहबाज शरीफ। फोटो - इंटरनेट मीडिया


इस्लामाबादनगरम्, ०८ जनवरीमासः (हि.स.)। पाकिस्तान–देशस्य प्रधानमन्त्री शहबाज–शरीफः सर्वकारस्य तथा अपदस्थ–प्रधानमन्त्रिणः इमरान–खानस्य दलस्य पाकिस्तान–तहरीक–ए–इन्साफ (पी.टी.आई.) इत्यस्य मध्ये संवादाय अनुमतिं दत्तवान् अस्ति। प्रधानमन्त्रिणा सभाध्यक्षः सरदार–अयाज–सादिकः संवादस्य नेतृत्वाय अधिकृतः कृतः अस्ति। अस्मिन् संवादे सर्वकारीय–प्रतिनिधिमण्डलमपि सहभागं करिष्यति।दुनिया–न्यूज-इति समाचार–संस्थायाः प्रतिवेदने एषा सूचना दत्ता। प्रतिवेदनानुसारं संवादः केवलं चयनित–प्रतिनिधिभिः सह एव भविष्यति। सभाध्यक्ष–कार्यालयस्य सूत्रैः अवगतं कृतं यत् अद्यावधि कश्चन अपि पी.टी.आई.–नेता औपचारिकरूपेण संवादाय सम्पर्कं न कृतवान् अस्ति। यदि विपक्ष–दलं सम्पर्कं करिष्यति, तर्हि सभाध्यक्षः अयाज–सादिकः त्वरितं सभाम् आह्वयिष्यति। एषा वार्ता सभाध्यक्षस्य कक्षे एव भविष्यति। उल्लेखनीयं यत् पी.टी.आई.–दलस्य सभाध्यक्षेन सह अन्तिमः संवादः महमूद–अचकजई–इत्यस्य विपक्ष–नेतृत्वे नियुक्त्यर्थं सम्पन्नः आसीत्।अस्मिन्नेव काले प्रधानमन्त्रिण: राजनैतिक–विषयेषु सलाहकारः तथा राज्यसभासदस्यः (सीनेटर) राणा–सनाउल्लाह–खानः अवदत् यत् सर्वकारः विपक्षेन सह राजनैतिक–संवादाय तथा लोकतन्त्रस्य प्रगत्यर्थं पूर्णतया सज्जः अस्ति। सनाउल्लाह–खानेन उक्तं यत् इदानीं पी.टी.आई.–दलस्योपरि एव निर्भरमस्ति यत् ते संवादं कर्तुम् इच्छन्ति न वा।

हिन्दुस्थान समाचार / Dheeraj Maithani