रायपुर : नगर निगमस्य एमआईसी-उपवेशनमद्य सायम्
रायपुरम् 08 जनवरीमासः (हि.स.)। रायपुरनगरनिगमस्य मेयर-इन-कौंसिल्-समितेःउपवेशनम् अद्य गुरुवासरे सायं पञ्चवादने भविष्यति। एतां सूचनां नगरनिगमस्य सचिवया संगीता साहुना दत्ता। उपवेशने राजधानीरायपुरनगरस्य विकासकार्येषु विशेषरूपेण चर्चा भविष्यति। सहैव
रायपुर नगर निगम फाइल फाेटाे


रायपुरम् 08 जनवरीमासः (हि.स.)।

रायपुरनगरनिगमस्य मेयर-इन-कौंसिल्-समितेःउपवेशनम् अद्य गुरुवासरे सायं पञ्चवादने भविष्यति। एतां सूचनां नगरनिगमस्य सचिवया संगीता साहुना दत्ता। उपवेशने राजधानीरायपुरनगरस्य विकासकार्येषु विशेषरूपेण चर्चा भविष्यति। सहैव स्वच्छता, पेयजलव्यवस्था तथा ड्रेनेज्-प्रणाली विषयेऽपि समीक्षा क्रियते। एवमेव स्वच्छतासर्वेक्षणे २०२६ तमे वर्षे नगरं श्रेष्ठस्थानं प्राप्नुयात् इति लक्ष्येण रणनीतिः अपि निर्मीयते।

---------------

हिन्दुस्थान समाचार