देशस्य वैज्ञानिकैः शीत–परमाणूनां घनत्वम् अविकृतं एव मापयितुं नवीना शैली विकसिता
नवदिल्ली, ०८ जनवरीमासः (हि.स.)। भारतीयैः वैज्ञानिकैः एतादृशी नवीना शैली विकसिताः, येन शीत–परमाणूनां (Cold Atoms) स्थानीय–घनत्वं वास्तविक–काले एव तेषां अवस्थां न प्रभावयित्वा मापयितुं शक्यते। एष: आविष्कारः क्वाण्टम्–कम्प्यूटिङ्ग्, क्वाण्टम्–सेन्सिङ
आरआरआई में शोध के दौरान कोल्ड एटम्स की तस्वीर


नवदिल्ली, ०८ जनवरीमासः (हि.स.)। भारतीयैः वैज्ञानिकैः एतादृशी नवीना शैली विकसिताः, येन शीत–परमाणूनां (Cold Atoms) स्थानीय–घनत्वं वास्तविक–काले एव तेषां अवस्थां न प्रभावयित्वा मापयितुं शक्यते।

एष: आविष्कारः क्वाण्टम्–कम्प्यूटिङ्ग्, क्वाण्टम्–सेन्सिङ्ग् इत्यादि भावी–प्रयोगेषु अत्यन्तं महत्त्वपूर्णः भविष्यति, यत्र परमाणूनां तथा तेषां क्वाण्टम्–अवस्थायाः वास्तविक–काले एव अवलोकनं अनिवार्यम् अस्ति।

वैज्ञानिकानां मतम् अस्ति यत् एष: शोधः विश्वे क्वाण्टम्–भौतिकी–क्षेत्रे महत्त्वपूर्णं परिवर्तनं आनयिष्यति।विज्ञान–प्रौद्योगिकी–मन्त्रालयस्य सूचनानुसारं, परम्परागत–शीत–परमाणु–प्रयोगेषु परमाणवः लेसर–शीतलीकरण–निग्रहण–प्रणालीनां साहाय्येन प्रायः शून्य–तापमानं पर्यन्तं शीतलिताः भवन्ति। अस्याम् अवस्थायां तेषां क्वाण्टम्–गुणधर्माः अधिकं स्पष्टाः भवन्ति।

पूर्वं परमाणूनां स्थितेः ज्ञानाय अवशोषण–चित्रणम् (Absorption Imaging) तथा दीप्ति–चित्रणम् (Fluorescence Imaging) इत्यादयः विधयः उपयुज्यन्ते स्म।

किन्तु घन–परमाणु–समूहेषु अवशोषण–चित्रणं प्रायः असफलं भवति, दीप्ति–चित्रणं च अधिकं समयं गृह्णाति, उभयविधयः च प्रायः परमाणूनाम् अवस्थां परिवर्तयन्ति।रमन–अनुसन्धान–संस्थायाः (RRI) वैज्ञानिकैः “रमन–प्रेरित–स्पिन–नॉइज़–स्पेक्ट्रोस्कोपी” (RDSNS) इति नाम्ना नवीना विधिः प्रदर्शिता।अस्यां विधौ स्पिन–नॉइज़–स्पेक्ट्रोस्कोपी रमन–लेसर–किरणैः सह संयोज्यते।

लेसर–प्रकाशस्य ध्रुवीकरणे यानि स्वाभाविक–परिवर्तनानि भवन्ति, तैः परमाणूनां स्पिन–स्थितेः ज्ञानं प्राप्यते। अतिरिक्तौ द्वे लेसर–किरणे परमाणून् समीपवर्तिनीषु स्पिन–अवस्थासु नयतः। अस्याः प्रौद्योगिक्याः साहाय्येन संकेत–शक्ति प्रायः दशलक्ष–गुणं वर्धते।

केवलं ०.०१ मि.मी.³ क्षेत्रे, यत्र प्रायः १०,००० परमाणवः सन्ति, तेषां स्थानीय–घनत्वस्य प्रत्यक्ष–मापनं सम्भवम् अभवत्।आरआरआई–संस्थायाः दलं पोटैशियम–परमाणुषु एतां विधिं प्रयुक्तवान्, यत्र दृश्यते स्म यत् परमाणु–समूहस्य केन्द्रीय–घनत्वं केवलं एक–पले स्थिरं अभवत्, यदा तु दीप्ति–चित्रणेन आहत्य–परमाणु–संख्यायाः मापनाय प्रायः द्विगुणः कालः आवश्यकः अभवत्।

आरआरआई–संस्थायाः शोध–सहायिके बर्नाडेट–वर्शा–एफ.जे. तथा भाग्यश्री–दीपक–बिदवाई अवदताम् यत् एषा विधिः आक्रामकहीना अस्ति। यतो हि अत्र प्रयुक्तः प्रोब–लेसर–किरणम् अल्प–शक्तौ तथा दूर–डिट्यून–अवस्थायां कार्यं करोति। अनेन माइक्रोपल–स्तरे अपि कतिपय–प्रतिशत–शुद्धता प्राप्ता।

शोधार्थिनी सयारी अवदत् यत् “वास्तविक–काले विनाश–रहित–चित्रण–विधयः क्वाण्टम्–सेन्सिङ्ग तथा क्वाण्टम्–कम्प्यूटिङ्ग–क्षेत्रे अत्युत्तमाः सन्ति। एषा प्रौद्योगिकी सूक्ष्म–घनत्व–परिवर्तनानि अवलोकयित्वा बहु–कण–गतिक्रियां (Many–Body Dynamics) प्रकाशयति तथा सैद्धान्तिक–नमूनानां परीक्षणे सहायकानि भवन्ति।”

आरआरआई–दलं RDSNS–विधिना प्राप्तं स्थानीय–घनत्वं दीप्ति–चित्रणस्य इनवर्स–एबेल–रूपान्तरणेन तुलनां कृत्वा निरीक्षितवान्। उभयोः मध्ये उल्लेखनीया समानता दृष्टा। विशेषतया, यत्र एबेल–रूपान्तरणम् अक्षीय–सममितौ निर्भरति, तत्र RDSNS–विधिः असममितिषु अथवा गतिशील–परमाणु–समूहेषु अपि कार्यक्षमा अस्ति। अस्य आविष्कारस्य व्यापकं महत्त्वम् अस्ति।

क्वाण्टम्–प्रौद्योगिकी–क्षेत्रे शीघ्रं, शुद्धं, आक्रामकहीनं घनत्व–मापनंगुरुत्वमापक–यन्त्राणि (Gravimeters), चुम्बकमापक–यन्त्राणि (Magnetometers)तथा अन्येषां संवेदक–यन्त्राणां कृते अत्यन्तम् उपयोगी अस्ति। एषा विधिः माइक्रोन–स्तरे स्थानीय–परीक्षणं सुलभं करोति तथा प्रणालीं न बाधयित्वा घनत्व–तरङ्गाः, क्वाण्टम्–परिवहन–प्रक्रियाः इत्यादीनां अध्ययनं सम्भवयति।

आरआरआई–संस्थायाः क्वाण्टम्–मिश्रित–प्रयोगशालायाः प्रमुखःप्रो.सप्तऋषि–चौधरी अवदत् यत् “एषा प्रौद्योगिकी न्यूट्रल–एटम–आधारित–क्वाण्टम्–कम्प्यूटिङ्ग्,क्वाण्टम्–सिमुलेशन तथा परिवहन–घटनानाम् अध्ययनाय अत्यन्तम् उपयोगी भविष्यति।”

हिन्दुस्थान समाचार / ANSHU GUPTA