Enter your Email Address to subscribe to our newsletters

वाराणसी, 08 जनवरीमासः(हि. स.)।
भारतीयजनतापक्षस्य (भाजपा) प्रदेशाध्यक्षः पंकजचौधरीः पत्रकारवार्तायां अवदत् यत् काङ्ग्रेसपक्षेण सर्वाः योजनाः स्वपरिवारस्य नाम्ना निर्मिताः सन्ति, किन्तु एका योजना रामजीस्य नाम्ना निर्मिता जाता चेत् तेषां क्लेशः जायते।
भाजपायाः प्रदेशाध्यक्षः पंकजचौधरीः अवदत् यत् महादेवस्य भूमौ लोकतन्त्रस्य चतुर्थस्तम्भस्य स्वागतं भवति। यदा प्रधानमन्त्री मोदीः कार्यभारं गृहीतवान्, तदा आरभ्य सः सर्ववर्गेषु दृष्टिं दत्तवान्। दरिद्रजनानां गृहनिर्माणे, स्वास्थ्यादिषु समस्यासु सः कार्यं कृतवान्। आयस्य संरक्षणं दत्त्वा तेन विकासः कृतः। मनरेगायोजनायां पूर्वं बहवः दोषाः आसन्, तेषु परिवर्तनं कृतम्। विकसितभारत-गारंटी-फॉर-रोजगार-एण्ड-आजीविका-मिशन-ग्रामीण-अधिनियमः (वीबी जी राम जी) इति योजना अद्य वर्तमानसरकारेण आनिता अस्ति। पूर्वं मनरेगायां गर्तः खन्यते स्म, ततः पुनः पूर्यते स्म। अस्याः योजनायाः आर्थिकः लाभः नाभवत्। अस्मिन् नकली-कार्यपत्रिकाः वितरिताः आसन्, श्रमिकेभ्यः पारिश्रमिकं न लभ्यते स्म। वीबी जी राम जी विधेयके एते सर्वे विषयाः समाविष्टाः, येन उत्तरदायित्वं निश्चितं भवेत्। ग्रामसभायाः प्रस्तावानुसारमेव सर्वाणि कार्याणि भविष्यन्ति।
प्रदेशाध्यक्षः पंकजचौधरीः अवदत् यत् वीबी जी राम जी योजनायां राज्येभ्यः अधिकारः दत्तः अस्ति, येन कृषकहिते कार्याणि नियन्त्रयितुं शक्यते। श्रमिकेभ्यः षष्टिदिनेषु पारिश्रमिकप्रदानस्य व्यवस्था अपि अस्यां योजनायां क्रियते। अस्मिन् विधेयके निर्दिष्टं यत् आगामीपञ्चवर्षेषु अष्टलक्षकोटिरूप्यकाणां व्ययः भविष्यति, येन ग्रामस्तरे कार्याणि सम्पन्नानि भविष्यन्ति।
एसआईआरस्य मसौदारोल् विषये प्रदेशाध्यक्षः अवदत् यत् अस्माकं कार्यकर्तारः अधस्तनस्तरेषु गमिष्यन्ति तथा मैपिङ्गार्थं कार्याणि करिष्यन्ति। ये नामानि विलोपितानि सन्ति, तेषां सम्यक् परीक्षणं कारयिष्यते।
समाजवादीपक्षं प्रति लक्षीकृत्य सः अवदत् यत् प्रत्येकं निर्वाचनं आव्हानात्मकमेव भवति। समाजवादीपक्षः केवलं जातीयराजनीतिं करोति तथा पीडीए इत्यस्य अर्थं पुनः पुनः परिवर्तयति।
---------------
हिन्दुस्थान समाचार