Enter your Email Address to subscribe to our newsletters

“बाबा विश्वनाथेन आहूतः — एतत् मम सौभाग्यम्” इति पङ्कज–चौधरी–महाशयः अवदत्
वाराणसी, ०८ जनवरीमासः (हि.स.)।भारतीय–जनता–दलस्य (भा.ज.पा.) प्रदेशाध्यक्षः तथा केन्द्रीय–मन्त्री पङ्कज–चौधरी–महाशयः काशी–प्रवासस्य द्वितीये दिने गुरुवासरे श्री–काशी–विश्वनाथ–मन्दिरे विधि–विधानपूर्वकं दर्शन–पूजनं कृतवान्।अस्मिन् अवसरे सः प्रदेशस्य तथा देशस्य सुख–समृद्ध्यै ईश्वरस्य कृपां प्रार्थितवान्।दर्शन–पूजनानन्तरं मन्दिरस्य चतुर्थ–द्वारे (गेट–नम्बर–४) पत्रकारैः सह संक्षिप्त–संवादे पङ्कज–चौधरी–महाशयः अवदत्—“एतत् मम सौभाग्यं यत् बाबा–विश्वनाथः माम् आहूतवान्, तथा तस्य चरणयोः शिरः नन्तुं अवसरः लब्धः।”अस्मिन् समये दलस्य कार्यकर्तारः तथा स्थानीय–पदाधिकारिणः अपि उपस्थिताः आसन्।अस्य पूर्वं सर्किट–हाउस–भवने पत्रकारैः सह संवादे प्रदेशाध्यक्षः प्रधानमन्त्री–नरेन्द्र–मोदी–नेतृत्वे प्रवर्तितस्य“विकसित–भारत–रोजगार–एवं आजीविका–गारंटी–मिशन–ग्रामीण”(विकसित भारत—जी–राम–जी)इति योजनायाः विषये विस्तृतां चर्चां कृतवान्।सः उक्तवान् यत् एषः अधिनियमः भ्रष्टाचार–विरुद्धं निर्णायकः प्रयास: अस्ति।पङ्कज–चौधरी–महाशयः अवदत् यत् पारदर्शितायाः सुनिश्चित्यर्थं कठोर–प्रावधानैः सह एषः अधिनियमः प्रवर्तितः, तथा वर्षे २०४७ तमे भारतं विकसित–राष्ट्रं कर्तुं दिशि एषः मील–स्तम्भः सिद्धः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता