Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, 08 जनवरीमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे प्रातःकाले गोरखपुरे दिवंगतपत्रकारस्य विवेक अस्थानस्य परिवाराय आर्थिकं संबलं प्रदत्तवान्। मुख्यमन्त्रिणा स्वर्गीय अस्थानस्य भार्यायै तथा द्वाभ्यां पुत्राभ्यां विवेकाधीनकोषात् पञ्चलक्षरूप्यकाणां आर्थिकसहायतायाः चेकपत्रं समर्पितम्, तथा च दुःखस्य अस्मिन् क्षणे सः परिवारस्य सह स्थित इति आश्वासनं दत्तम्।
गोरखपुर जर्नलिस्ट्स प्रेस क्लबस्य आजीवनसदस्यः पत्रकारः रंगकर्मी च विवेक अस्थानः पञ्चमे जनवरीदिने हृदयाघातेन दिवंगतः अभवत्। परिवारस्य सहाय्यार्थं गोरखपुर जर्नलिस्ट्स प्रेस क्लबपरतः बुधवासरे अपराह्णे मुख्यमन्त्रिणे योगी आदित्यनाथाय प्रार्थनापत्रं दत्त्वा निवेदनं कृतम्। मुख्यमन्त्रिणा शीघ्रं संवेदनां प्रदर्श्य उन्नविंशतिघण्टाभ्यन्तरे परिवाराय आर्थिकसहायता प्राप्ता।
मुख्यमन्त्री गुरुवासरे प्रातःकाले गोरखनाथमन्दिरस्य उपवेशनकक्षे विवेक अस्थानस्य भार्यां निहारिकां तथा द्वौ पुत्रौ दिव्यं देवं च मिलितवान्। तेषां दुःखं सहभागीभूय पञ्चलक्षरूप्यकाणां आर्थिकसहायतायाः चेकं समर्पितवान्। सः बालकान् अध्ययनविषये अपृच्छत् तथा च एकाग्रतया अध्ययनं कर्तुं प्रेरितवान्। मुख्यमन्त्रिणा परिवाराय एतदपि आश्वस्तं कृतं यत् तेषां सर्वथा सम्भवा सहायता करिष्यते।
अस्मिन् अवसरे भारतीयजनतापक्षस्य प्रदेशोपाध्यक्षः तथा विधानपरिषदस्य सदस्यः डॉ धर्मेन्द्र सिंहः विधायकः प्रदीप शुक्लः मुख्यविकासाधिकारी शाश्वत त्रिपुरारी तथा अपरजिलाधिकारी वित्तराजस्वयोः विनीत कुमार सिंहश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार