महिलानां बालानां च विकासाय बलं, मंत्रालयेन विमोचितं “पंखुड़ी” पटलम्
नव दिल्ली, 08 जनवरीमासः (हि.स.)। महिला-बालविकासमन्त्रालयेन गुरुवासरे “पङ्खुडी” इति नाम्ना एकीकृत-निगमसामाजिकदायित्व-(CSR)-एवम् सहकारिता-सुविधायाः डिजिटल-पटलस्य शुभारम्भः कृतः। अस्य उद्देश्यं महिलानां बालानां च विकाससम्बद्धासु पहलिषु समन्वयं पारदर
पंखुड़ी पोर्टल के लॉन्च के मौके पर  केंद्रीय मंत्री अन्नपूर्णा देवी, राज्य मंत्री  सावित्री ठाकुर तथा मंत्रालय के सचिव  अनिल मलिक


नव दिल्ली, 08 जनवरीमासः (हि.स.)।

महिला-बालविकासमन्त्रालयेन गुरुवासरे “पङ्खुडी” इति नाम्ना एकीकृत-निगमसामाजिकदायित्व-(CSR)-एवम् सहकारिता-सुविधायाः डिजिटल-पटलस्य शुभारम्भः कृतः। अस्य उद्देश्यं महिलानां बालानां च विकाससम्बद्धासु पहलिषु समन्वयं पारदर्शितां हितधारकसहभागितां च सुदृढीकर्तुम् अस्ति।

मन्त्रालये आयोजिते कार्यक्रमे महिला-बालविकासमन्त्री अन्नपूर्णा देवी अवदत् यत् पङ्खुडी-पटलः प्रधानमन्त्री नरेन्द्र मोदी-महोदयस्य तस्मात् दृष्टिकोणात् प्रेरितः अस्ति, यत्र प्रौद्योगिकी-शासन-नागरिकाणां मध्ये सेतु-निर्माणे विशेषः बलः दत्तः। एषः पटलः पारदर्शितां सहभागितां विश्वासं च वर्धयति। तया उक्तं यत् कस्यापि योजनायाः सफलतायै जनसहभागिता अनिवार्या अस्ति। पङ्खुडी-पटलः तदेव दृष्टिं साकारयति, यः शासन-नागरिक-संस्थानानां सामाजिकविकासाय संयुक्तः डिजिटल-मञ्चः अस्ति।

तया अपि कथितं यत् पङ्खुडी-पटलः एक-वातायन-(सिंगल-विण्डो)-डिजिटल-मञ्चरूपेण विकसितः अस्ति, यः व्यक्तीन् प्रवासीभारतीयान् गैर-सरकारी-संस्थाः CSR-योगदानकर्तॄन् निगमसंस्थानानि तथा महिला-बालविकासक्षेत्रे कार्यरताः शासकीय-संस्थाः एकत्र संयोजयति।

अन्नपूर्णा देवी अवदत् यत् अस्य पटलस्य माध्यमेन जनाः पोषणे स्वास्थ्ये प्रारम्भिकबाल्यावस्थासंरक्षण-शिक्षायां बालकल्याणे संरक्षण-पुनर्वासयोः महिलानां सुरक्षा-सशक्तीकरणयोः च प्रमुखेषु विषयेषु स्वैच्छिकं संस्थागतं च योगदानं कर्तुं शक्नुवन्ति। एषः पटलः CSR-स्वैच्छिक-योगदानाय एकं साझा-डिजिटल-इण्टरफेस् प्रदाय हितधारकाणां मध्ये उत्तमं अभिसरणं समन्वयं च सुनिश्चितं करोति। अनेन महिलानां बालानां च कल्याण-सशक्तीकरणसम्बद्धानां योजनानां कार्यान्वयने निगराण्यां उत्तरदायित्वे च सुधारः भवति। अस्मिन् अवसरॆ राज्यमन्त्री सावित्री ठाकुरः मन्त्रालयस्य सचिवः अनिल मलिकश्च उपस्थितौ आस्ताम्।

पङ्खुडी-पटलः किम्

मन्त्रालयस्य प्रमुखमिशनानां— मिशन सक्षम-आङ्गनवाडी-पोषण-२.०, मिशन वात्सल्य, मिशन शक्ति— प्रभावी-कार्यान्वयनाय एषा पारदर्शी-डिजिटल-व्यवस्था अस्ति। अस्य पटलस्य माध्यमेन योगदानकर्तारः पञ्जीकरणं कृत्वा पहलयः चिन्वन्ति, प्रस्तावान् समर्पयन्ति तथा स्पष्ट-स्वीकृतिप्रक्रियाभिः स्वयोगदानस्य स्थितिं अनुवर्तयितुं शक्नुवन्ति।

पारदर्शिता-उत्तरदायित्व-अनुसरणीयतां (ट्रेसबिलिटी) सुनिश्चितीकर्तुं पटलमार्गे सर्वाणि योगदानानि केवलं गैर-नगद-माध्यमैः स्वीकृतानि भवन्ति। एषः मञ्चः केन्द्रीय-राज्य-शासनविभागानां कार्यान्वयन-संस्थानां नागरिक-समाज-संस्थाः सार्वजनिक-निजी-क्षेत्र-हितधारकाणां मध्ये सहयोगं प्रवर्धयति।

अनेन देशव्यापि चतुर्दशलक्षाधिकेषु आङ्गनवाडी-केन्द्रेषु पञ्चसहस्राधिकेषु बाल-देखभाल-संस्थासु प्रायः अष्टशतानि वन-स्टॉप-केन्द्राणि पञ्चशतानि शक्तिनिवासानि चतुर्शतान्यधिकानि शक्तिसदनानि च अधोसंरचना-सेवासु सुधारं प्राप्स्यन्ति, येन कोट्यधिकानां नागरिकानां जीवनस्तरः उन्नतिं गमिष्यति।

-----------

हिन्दुस्थान समाचार