अत्याधुनिकैः उपकरण-शस्त्रैः युद्धरीतिनीतिभिः जनाः परिचेष्यन्ति- मुख्यमंत्री भजनलाल शर्मा
जयपुरम्, 08 जनवरीमासः (हि.स.)। मुख्यमन्त्री भजनलाल शर्मा गुरुवासरे अष्टसप्ततितमे (७८) सेनादिवसस्य उपलक्ष्ये आयोजितेषु कार्यक्रमेषु अन्तर्गतं भवानीनिकेतन-शिक्षासमिति-परिसरे चतुर्दिवसीयायाः ‘नो योर आर्मी’ इति प्रदर्शिन्याः उद्घाटनं कृतवान्। तेन प्र
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, 08 जनवरीमासः (हि.स.)।

मुख्यमन्त्री भजनलाल शर्मा गुरुवासरे अष्टसप्ततितमे (७८) सेनादिवसस्य उपलक्ष्ये आयोजितेषु कार्यक्रमेषु अन्तर्गतं भवानीनिकेतन-शिक्षासमिति-परिसरे चतुर्दिवसीयायाः ‘नो योर आर्मी’ इति प्रदर्शिन्याः उद्घाटनं कृतवान्। तेन प्रदर्शिन्यां भारतीयसेनायाः अत्याधुनिकोपकरणानां शस्त्राणां च अवलोकनमपि कृतम्।

मुख्यमन्त्रिणा उक्तं यत् ‘नो योर आर्मी’ प्रदर्शिन्यां अत्याधुनिकोपकरणानां युद्धकौशलानां च दर्शनं लभ्यते। अनेन सामान्यजनाः अवगन्तुं शक्नुवन्ति यत् कथं भारतीयसेना अहर्निशं राष्ट्रस्य सुरक्षायै सज्जा तिष्ठति। तेन उक्तं यत् सेनादिवसपरेडः प्रथमवारं सैन्यछावणीसीमातः बहिः जयपुरनगरे आयोज्यते। अस्याः परेडायाः माध्यमेन नागरिकाः भारतीयसेनायाः अनुशासनं शौर्यं बलिदानं सैन्यशक्तिं च प्रत्यक्षतया अनुभविष्यन्ति।

शर्मा अवदत् यत् भारतीयसेना प्रत्येकस्य देशवासिनः कवचं, प्रत्येकपरिवारस्य विश्वासः, राष्ट्रस्य आत्मा च अस्ति। मरुभूमेः आरभ्य हिमाच्छादिते सियाचिनप्रदेशे पर्यन्तं सर्वेषु मोर्चेषु अस्माकं सैनिकाः सज्जाः सन्ति, येन देशस्य नागरिकाः सुरक्षिताः तिष्ठेयुः। तेन उक्तं यत् ऑपरेशन पराक्रम, ऑपरेशन रक्षक, ऑपरेशन सिन्दूर इत्यादिभिः अभियानेन भारतीयसेनया दर्शितं यत् सा आक्रमणस्य समुचितं प्रत्युत्तरं दातुं जानाति।

मुख्यमन्त्रिणा उक्तं यत् ऑपरेशन सिन्दूरद्वारा विश्वेन आतंकवादस्य विरुद्धं भारतदेशस्य दृढा प्रतिबद्धता दृष्टा। प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य पहलया आरब्धस्य मिशन सुदर्शनचक्रस्य अन्तर्गतं अद्य भारतदेशः कस्यापि संकटस्य सटीकं शक्तिशालीं च प्रत्युत्तरं दातुं समर्थः अस्ति। शर्मा अवदत् यत् राजस्थानं वीराणां कर्मभूमिः जन्मभूमिश्च अस्ति। अस्याः भूमेः परमवीरचक्रविजेता पीरूसिंहः, परमवीरचक्रविजेता मेजर् शैतानसिंहः, लेफ्टिनेन्ट् जनरल् सगतसिंहः इत्यादयः पराक्रमिणः योद्धारः उत्पन्नाः।

शर्मा अवदत् यत् प्रधानमन्त्रीस्य नेतृत्वे भारतस्य सशस्त्रसेनानां आधुनिकीकरणं अभूतपूर्वगत्या प्रवर्धितम् अस्ति। ‘मेक् इन् इण्डिया’ तथा ‘आत्मनिर्भरभारत’ अभियानेन रक्षाउत्पादने स्वदेशीकरणाय प्राथमिकता दत्ता। तेन उक्तं यत् वित्तवर्षे २०२४–२५ मध्ये भारतस्य वार्षिकं रक्षाउत्पादनं अभिलेखस्तरे गत्वा अधुना १.५१ लक्षकोटिरूप्यकात् अधिकं जातम् अस्ति, तथा च रक्षानिर्यातः २३ सहस्रं ६२२ कोटिरूप्यकपर्यन्तं सर्वकालिक-उच्चस्तरं प्राप्तवान्।

मुख्यमन्त्रिणा उक्तं यत् द्विइञ्जिन-सरकारेण द्वितीयविश्वयुद्धकालीनानां अपेंशनरपूर्वसैनिकानां विधवानां च मासिकपेंशनं १० सहस्ररूप्यकात् १५ सहस्ररूप्यकपर्यन्तं वर्धिता, येन राज्यस्य ९७६ पूर्वसैनिकाः विधवाश्च लाभान्विताः। वीरगतिप्राप्तसैनिकानां सम्मानार्थं ४३ विद्यालयानां नामकरणमपि कृतम्। युद्धे आहतानां सैनिकानां ७ आश्रितेभ्यः २३ शौर्यपदकधारकेभ्यश्च कुलं ७५० बीघाभूमेः आवंटनं कृतम्। पुलवामा-आक्रमणे वीरगतिप्राप्तानां केन्द्रीय-रिजर्व-पुलिस-बलस्य पञ्च कर्मिणां आश्रितविराङ्गनाभ्यः आवासाः अपि प्रदत्ताः।

शर्मा अवदत् यत् पूर्वसैनिकानां आश्रितानां वीराङ्गनानां च पञ्जीकरणार्थं तथा राज्यसरकारेण प्रदत्तानां सुविधानां कृते नवीनं वेब्-पटलं निर्मितम् अस्ति। निवृत्तवेतनसम्बद्धानां विसङ्गतीनां समाधानार्थं जिलास्तरे ४१८ शिबिराणि आयोजितानि, येन १२२८ प्रकरणानां निस्तारणं कृतम्। तेन उक्तं यत् संविदाभूतपूर्वसैनिकानां मानदेये २०२४ तथा २०२५ वर्षयोः प्रतिवर्षं १०–१० प्रतिशतवृद्धिः कृता।

प्रदर्शिन्यां ऑपरेशन सिन्दूरकाले भारतीयसेनया प्रयुक्तानि आधुनिकशस्त्राणि, तोपखाना-साधनानि, सैन्यसंसाधनानि च प्रदर्शितानि। आधुनिकरायफलाः, बैलिस्टिक्-मिसाइल्-प्रणाल्यः, स्वचालित-तोपाः, ट्याङ्काः, बङ्कराः, ड्रोनानि, एण्टी-ड्रोन-प्रणाल्यश्च प्रदर्शिताः। भारतीयसेनायाः यान्त्रिकसेनाः, पैराग्लाइडिङ्, स्काइडाइविङ्, श्वानदलं च सजीवं प्रदर्शनं कृतम्। सिम्फनी-बैण्डेन देशभक्तिपूर्णाः प्रस्तुतयः प्रदत्ताः। अस्मिन् अवसरॆ मुख्यमन्त्रिणा वीराङ्गनाः सम्मानिताः।

कार्यक्रमे विद्यालयीयशिक्षामन्त्री मदन दिलावरः, पशुपालन-डेयरीमन्त्री जोराराम कुमावतः, खाद्य-नागरिक-आपूर्तिमन्त्री सुमित गोदारा, राज्यवित्तआयोगाध्यक्षः डॉ. अरुण चतुर्वेदी, नगरीयविकास-स्वायत्तशासनमन्त्री (स्वतन्त्रप्रभारः) झाबर सिंह खर्रा, गृह-राज्यमन्त्री जवाहर सिंह बेढम, सैनिककल्याण-राज्यमन्त्री विजय सिंह, मुख्यसचिवः वी. श्रीनिवासः, सप्तशक्ति-कमानस्य आर्मी-कमाण्डर् लेफ्टिनेन्ट् जनरल् मनजिन्दर सिंह, चीफ् ऑफ् स्टाफ् लेफ्टिनेन्ट् जनरल् एच्.एस्. वांदरा, पुलिसमहानिदेशकः राजीव कुमार शर्मा, भारतीयसेनायाः वरिष्ठाः अधिकारिणः, सैनिकाः, एनसीसी-सैनिकच्छात्राः तथा बहुसंख्यकाः गणमान्यनागरिकाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार