Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, ०८ जनवरीमासः (हि.स.)। महाराष्ट्रराज्यस्य पुणेनिवासी प्रख्यातः वैज्ञानिकः पारिस्थितिकीविद् च डॉ.माधवगाडगिल–महाभागः (द्व्यशीतितमवर्षीयः) गत–रात्रौ पुणे–नगरे स्थिते “डॉ.शिरीष–प्रयाग–चिकित्सालय”–नामके चिकित्सालये देहावसानं कृतवान्। गतदिनेषु तस्य तत्र उपचारः प्रवर्तमानः आसीत्। एतां सूचनां तस्य पुत्रः सिद्धार्थ–गाडगिल–महाभागः गुरुवासरे दत्तवान्।
सिद्धार्थ–गाडगिल–महाभागः अवदत् यत् अद्य सायंकाले पुणे–नगरे स्थिते वैकुण्ठ–श्मशान–घट्टे तस्य पितुः अन्त्येष्टिः भविष्यति। पारिस्थितिकीविद् डॉ.गाडगिल–महाभागः भारतदेशस्य अग्रणी–पर्यावरण–चिन्तकेषु गण्यते स्म। सः “धरती–पुत्रः” इति अपि अभिधीयते स्म। सः स्वजीवनस्य सम्पूर्णं कालं विशेषतः पश्चिम–घाट–पर्वत–श्रृङ्खलायाः जैव–विविधता–संरक्षण–विषये जन–जागरूकतां संवर्धयितुं प्रयत्नं कृतवान्।
पश्चिम–घाट–प्रदेशे विकास–कार्याणां कारणेन पशु–वनस्पति–समुदायानां पारिस्थितिक–सन्तुलनस्य महद् संकटम् उत्पद्यते इति प्रशासनं प्रति प्रथमा संचेतना दत्ता स एव आसीत्। ईस्वी–२०११ तमे वर्षे तेन सिद्धा “गाडगिल–प्रतिवेदनम्” विकास–नाम्ना पर्यावरण–जैव–विविधतायाः हानिं कुर्वतः दृष्टिकोणस्य कटु–सत्यं प्रदर्शितवती।
संयुक्त–राष्ट्र–संघः अपि भारतदेशे पर्यावरण–विषयेषु डॉ.माधव–गाडगिल–महाभागस्य योगदानं विशेषतया अवलोकितवान्। ईस्वी–२०२४ तमे वर्षे संयुक्त–राष्ट्र–पर्यावरण–कार्यक्रमेण (UNEP) तस्मै “Champion of the Earth” इति सम्मानं प्रदत्तम् आसीत्।
UNEP–संस्थया दत्ते वक्तव्ये उक्तम् आसीत्। “षष्टि–वर्षात्मकस्य वैज्ञानिक–जीवनस्य अवधौ डॉ.माधव–गाडगिल–महाभागस्य यात्रा हार्वर्ड–विश्वविद्यालयस्य सभागृहात् आरभ्य भारत–सर्वकारस्य उच्चतम–पदपर्यन्तं व्याप्ता। तथापि सः सर्वदा स्वं ‘जन–वैज्ञानिकः’ इति मन्यते स्म।”
ईस्वी–२०२१ तमे वर्षे सः बाढ–मेघ–विस्फोट–इत्यादि प्राकृतिक–आपदासु महत्त्वपूर्णानि मतानि दत्तवान्। तेन उक्तम् यत् “पश्चिम–घाट–प्रदेशे एषा प्रथम–घटना नास्ति। गत–वर्षेषु अपि अत्र एतादृशाः घटनाः जाताः। हिमालय–प्रदेशे अपि विगत–पञ्चाशत् वर्षेषु नदीप्रवाह: दृष्ट:। ईस्वी–१९७२ तमे वर्षे उत्तराखण्डे ‘चिपको–आन्दोलनम्’ अलकनन्दा–नद्यां वन–छेदन–भूमिस्खलन–जन्य–नदीप्रवाहानां विरोधेन एव आरब्धम्।”
हिमालय–पर्वत–श्रेणी भारतीय–यूरोपीय–प्लेटयोः सङ्घर्षेण निर्मिता, अतः सा हिमस्खलन–भूमिस्खलनयोः अधिक–संवेदनशीला अस्ति। परन्तु पश्चिम–घाट–पर्वताः ज्वालामुखी–उद्गार–जन्य–शिलाभिः निर्मिताः सन्ति।
ईस्वी–२०११ तमे वर्षे डॉ.गाडगिल–महाभागस्य अध्यक्षतायां “पश्चिम–घाट–विशेषज्ञ–समिति” स्थापिता। सा समिति: पश्चिम–घाट–प्रदेशस्य १,२९,०३७ वर्ग–किलोमीटर–विस्तीर्णं क्षेत्रं पर्यावरण–संवेदनशील–क्षेत्ररूपेण घोषयितुम् अनुशंसां कृतवती, यतः तत्र सघन–वनानि तथा संकटग्रस्त–प्रजातयः सन्ति।
कतिपय–राज्यैः एषा अनुशंसा कठोर–नियमकारणात् आलोचिता। त्रिवर्षानन्तरं कस्तूरीरङ्गन–महाभागस्य अध्यक्षतायाम् अन्यः आयोगः गठितः, येन एषा सीमा ७५ प्रतिशततः ५० प्रतिशतं न्यूनम्। तथापि एषा अनुशंसा अद्यापि पूर्णतया कार्यान्विता न जाताः।
हिन्दुस्थान समाचार / अंशु गुप्ता