बीएचईएल - वन्दे–भारत–शयनयान–रेल–परियोजनायै अर्ध–उच्चगति–अधःस्थापित–ट्रैक्शन–परिवर्तकानाम् आपूर्तिं प्रारब्धवान्
हरिद्वारनगरम्, ०८ जनवरीमास: (हि.स.)। भारत–हेवी–इलेक्ट्रिकल्स–लिमिटेड (भेल) इत्यस्य रेल–परिवहन–क्षेत्रे “मेक–इन–इण्डिया”–अभियानान्तर्गतं महत्त्वपूर्णा उपलब्धिः प्राप्ता अस्ति। अधुना भेल–संस्थया भारतस्य वन्दे–भारत–शयनयान–रेल–परियोजनायै अधःस्थापित–ट्र
अंडरस्लंग ट्रैक्शन कन्वर्टर्स को रवाना करते हुए


हरिद्वारनगरम्, ०८ जनवरीमास: (हि.स.)। भारत–हेवी–इलेक्ट्रिकल्स–लिमिटेड (भेल) इत्यस्य रेल–परिवहन–क्षेत्रे “मेक–इन–इण्डिया”–अभियानान्तर्गतं महत्त्वपूर्णा उपलब्धिः प्राप्ता अस्ति। अधुना भेल–संस्थया भारतस्य वन्दे–भारत–शयनयान–रेल–परियोजनायै अधःस्थापित–ट्रैक्शन–परिवर्तकानां (Under-slung Traction Converters) आपूर्तिः प्रारब्धा अस्ति।अस्मिन् विषये गुरुवासरे भेल–संस्थायाः बेंगलुरु–निर्माण्यां ध्वज–प्रदर्शन–समारोहः आयोजितः आसीत्। अस्मिन् अवसरे औद्योगिक–प्रणाली–उत्पाद–निदेशिका बानी–वर्मा–महाभागा अन्यैः वरिष्ठ–अधिकारिभिः सह वन्दे–भारत–शयनयान–रेलयानानां कृते विशेषतया विनिर्मितानाम् अर्ध–उच्चगति–युक्तानां अधःस्थापित–ट्रैक्शन–परिवर्तकानां प्रथम–समुच्चयं हरित–ध्वज–प्रदर्शनपूर्वकं प्रेषितवती।एतद्विषये भेल–हरिद्वार–संचार–जनसम्पर्क–प्रमुखः संजय–पवार–महाभागः अवदत् यत्—आईजिबिटी–आधारित–ट्रैक्शन–परिवर्तकैः युक्तेषु अधःस्थापित–रूपरेखायुक्तेषु प्रणोदन–उपकरणेषु रेलयान–यानस्य अधो भागे स्थाप्यन्ते। अनेन यात्रिकाणां सौविध्यर्थं रेलयान–अन्तर्भागे पर्याप्तं स्थानं लभ्यते तथा च सम्पूर्ण–भार–वहन–क्षमता वर्धते।अस्य प्रणोदन–प्रणाल्याः विशेषता अस्ति यत् सा १७६ कि.मी.–प्रतिघण्टा–वेगाय विनिर्मिता अस्ति तथा च १६० कि.मी.–प्रतिघण्टा–पर्यन्तं परिचालन–वेगः साध्यते।पवार–महाभागः अवदत् यत् ऊर्जा–आधारभूत–संरचना–क्षेत्रयोः देशस्य अग्रणी–विनिर्माण–संस्था बीएचईएलशक्तिः, परिवहनम्, रक्षा तथा उद्योग–क्षेत्रेषु उत्तम–श्रेणी–स्वदेशीय–समाधानानि प्रददाति। लोकोमोटिव–वितरित–शक्ति–रेलयानानां कृते जटिल–प्रौद्योगिकीनां सफल–स्वदेशीकरणेन बीएचईएल-परिवहन–रोलिंग–स्टॉक–क्षेत्रयोः आत्मनिर्भरता–दिशि भारतस्य प्रयासान् अग्रे नयति।उल्लेखनीयम् अस्ति यत् एषः अर्ध–उच्चगति–प्रणोदन–खण्डे बीएचईएल–संस्थायाः रणनीतिक–प्रवेशं दर्शयति। ट्रैक्शन–परिवर्तकाः वन्दे–भारत–शयनयान–रेलयानानाम् अन्तिम–संयोजनाय कोलकाता–नगरं प्रेष्यन्ते। तदतिरिक्तम् एतेषां रेलयानानां कृते ट्रैक्शन–यन्त्रम्, ट्रांसफॉर्मर-इत्यादयः अन्ये प्रमुख–प्रणोदन–उपकरणानि भोपाल–झांसी–इकाइभ्यां विकसितानि विनिर्मितानि च सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता