Enter your Email Address to subscribe to our newsletters

पटना, 09 जनवरीमासः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री नीतीशकुमारः शुक्रवासरे जेपी–गङ्गापथे क्रियमाणस्य भूपरिसज्जनस्य, वृक्षारोपणस्य च सौन्दर्यवर्धनकार्यस्य निरीक्षणं कृतवान्। तस्मिन्नेव अवसरे गङ्गानद्याः तीरे विकसितस्य उद्यानस्यापि सः अवलोकनं कृतवान्। निरीक्षणक्रमे अधिकारिणः मुख्यमन्त्रिणं प्रति उद्यानविकाससम्बद्धानां योजनानां विस्तृतां सूचनां दत्तवन्तः।
मुख्यमन्त्री अधिकारिणः निर्देशयन् अवदत् यत् उद्यानं गङ्गानद्याः तीरे स्थितम् अस्ति, अतः जनानां सुरक्षा सुविधा च सर्वोच्चप्राथमिकतया गृहीत्वा विकासकार्याणि क्रियन्ताम्। सः अवदत् यत् अत्र उत्तमं कार्यं प्रचलति, उद्यानस्य विकासेन च जेपी–गङ्गापथक्षेत्रे हरितिमा वर्धिष्यते। अनेन जनाः स्वपरिवारैः सह अत्र समयं यापयितुं शक्नुवन्ति। मुख्यमन्त्री कार्याणां शीघ्रसमाप्तिं निर्देशितवान्।
मुख्यमन्त्री नीतीशकुमारः अवदत् यत् वृक्षारोपणेन सम्पूर्णं क्षेत्रं हरितं मनोहरं च दृश्यते। सः जेपी–गङ्गापथं अद्भुतां परियोजनां निर्दिश्य अवदत् यत् अस्य सौन्दर्यवर्धनं उत्तमरीत्या क्रियते। आगामिकाले इदं क्षेत्रं सामान्यजनानां कृते प्रमुखं आकर्षणकेन्द्रं भविष्यति। अपि च सः अवदत् यत् जेपी–गङ्गापथे मार्गसुरक्षा निर्बाधं यातायातं च सुनिश्चितं करणीयम्।
निरीक्षणकाले राज्यसभासदस्यः जदयू–कार्यकारी–राष्ट्रीयाध्यक्षः संजयकुमारझा, मुख्यमन्त्रिणः प्रधानसचिवः दीपककुमारः, विशेषकार्यपदाधिकारी गोपालसिंहः, मुख्यमन्त्रिणः सचिवः डॉ॰ चन्द्रशेखरसिंहः, पटनाप्रमण्डलस्य आयुक्तः अनिमेषपराशरः, पटनाजिलाधिकारीः डॉ॰ त्यागराजनः एस॰एम॰ इत्यादयः अन्ये च वरिष्ठाधिकारिणः उपस्थिताः आसन्।-------------
हिन्दुस्थान समाचार