ईडी–निरीक्षण-विषये ममता–बनर्जी किमर्थम् एतावती व्याकुला? - भाजपा–दलम्
नवदिल्ली, ०९ जनवरीमासः (हि.स.)। प्रवर्तन–निदेशालयस्य (ईडी) निरीक्षण–विरोधे तृणमूल–काँग्रेस–दलेन कृतस्य प्रदर्शनस्य विषये भारतीय–जनता–दलं (भाजप) तीव्रं लक्ष्यं कृतवान्। भाजपादलस्य वरिष्ठ–नेता तथा सांसदः रविशङ्कर–प्रसादः अवदत् यत् ममता–बनर्जी पश्चिम–
भाजपा सांसद रविशंकर प्रसाद


नवदिल्ली, ०९ जनवरीमासः (हि.स.)। प्रवर्तन–निदेशालयस्य (ईडी) निरीक्षण–विरोधे तृणमूल–काँग्रेस–दलेन कृतस्य प्रदर्शनस्य विषये भारतीय–जनता–दलं (भाजप) तीव्रं लक्ष्यं कृतवान्। भाजपादलस्य वरिष्ठ–नेता तथा सांसदः रविशङ्कर–प्रसादः अवदत् यत् ममता–बनर्जी पश्चिम–बङ्गाले कस्यापि अन्वेषणस्य अवसरं न ददाति। सः प्रश्नं कृतवान्— सा किमर्थम् एतावती व्याकुला?सः ममता–बनर्जीं प्रति ईडी–अधिकारिण: भर्त्सनस्य आरोपम् अपि अकरोत्।शुक्रवासरे भाजपा–मुख्यालये आयोजितायां पत्रकार–वार्तायां रविशङ्कर–प्रसादः अवदत्—“स्वतन्त्र–भारते पश्चिम–बङ्गाले यत् अद्य अभवत्, तत् पूर्वं कदापि न दृष्टम्। एकस्मिन् वैयक्तिक–सम्पत्तिस्थले, यत्र ईडी–द्वारा धन–शोधन–(मनी–लॉन्डरिङ्ग) प्रकरणे कार्यवाही प्रचलिता आसीत्, तत्र एका वर्तमान–मुख्यमन्त्री स्वयम् आगत्य ईडी–अधिकारिणः भर्त्सयति, तेषां कागदानि अपहृत्य गच्छति।”सः अवदत् यत् कोयला–तस्करी तथा हवाला–आदानप्रदान-विषयेषु ईडी–द्वारा कार्यवाही क्रियते, यस्यान्तर्गतं विविध–स्थानेषु निरीक्षणं कृतम्।प्रतीक–जैनस्य परामर्श–संस्थायाः विषये सूचना प्राप्ता यत् तत्र कोटि–रूप्यकाणां व्यवहारः जातः। “एतत् वयं न वदामः, किन्तु ईडी–द्वारा स्वस्य आधिकारिक–वक्तव्ये उक्तं, यत् तेषां जालस्थले उपलब्धम् अस्ति।”रविशङ्कर–प्रसादः अवदत् यत् पश्चिम–बङ्गालः कोयला–तस्कर्याः महत् केन्द्रम् अस्ति, यत्र सत्तारूढ–दलस्य जनाः अपि संलग्नाः सन्ति।सः स्पष्टं कृतवान् यत् एतत् निरीक्षणं न ममता–बनर्ज्याः गृहे, न तस्याः कार्यालये, न तृणमूल–काँग्रेस–कार्यालये, न च कस्यचित् दल–नेतुः वा मन्त्रिणः गृहे अभवत्।एतत् निरीक्षणम् एकस्मिन् वैयक्तिक–परामर्श–संस्थाने अभवत्, यत्र कोटि–रूप्यकाणां धन–शोधनस्य सूचना आसीत्। तथापि मुख्यमन्त्री स्वयम् आगच्छति, तस्याः आरक्षी–अधिकृताः अपि आगच्छन्ति, ईडी–जनान् भर्त्सयन्ति, ममता–बनर्जी तैः सह विवादं करोति, कागदानि अपहृत्य गच्छति।रविशङ्कर–प्रसादः अवदत् यत् तस्याः आचरणंन केवलम् अमर्यादितम्, असंवैधानिकं च, अपि तु लज्जास्पदं अस्ति, तथा तया संवैधानिक–मर्यादाः अपि भग्नाः सन्ति।सः अवदत्—“ममता–देवि!, भवती किमर्थम् एतावती व्याकुला? भवती वरिष्ठ–नेत्री अस्ति, १४ वर्षाणि यावत् मुख्यमन्त्री आसीत्, पूर्वं केन्द्रीय–मन्त्री अपि आसीत्, शासन–प्रणालीं च जानाति।”सः पुनः अवदत् यत् यदि सा सर्वान् नियमान्, अधिनियमान् तथा लोकतान्त्रिक–मर्यादाः उल्लङ्घ्य तत्र गमनम् आवश्यकं मन्यते, तर्हि तत्र कश्चन सन्दिग्ध: विषय: आसीत्, यं गोपयितुम् इष्टवती।सः प्रश्नं कृतवान्—“किं ममता–बनर्जी बंगाले कस्यापि अन्वेषणं न कर्तुं कश्चन अनुबन्धः कृतवती?बंगालस्य भ्रष्टाचार–प्रकरणेषु सीबीआई वा ईडी–अन्वेषणं न भवतु, यतः सर्वत्र तस्याः प्रणाली–पादाः विस्तृताः सन्ति।वयं अस्याः तीव्रां भर्त्सनां कुर्मः।”

हिन्दुस्थान समाचार / अंशु गुप्ता