Enter your Email Address to subscribe to our newsletters

काठमांडूः, 09 जनवरीमासः (हि.स.)।
भारतीयः अभिनेता संजयदत्तः गुरुवासरे रात्रौ विशेषेण विमानेन नेपालदेशस्य राजधानीं काठमाण्डूं प्राप्नोत्। त्रिभुवनान्ताराष्ट्रियविमानस्थले तस्य स्वागताय बहुसंख्यकाः प्रशंसकाः नेपाली चलचित्रजगतः सम्बद्धाश्च कलाकाराः उपस्थिताः आसन्।
संजयदत्तः नेपालदेशे एकस्य बहुप्रतीक्षितस्य हिन्दीनेपालीचलचित्रपरियोजनायाः तथा एकस्य निजव्यावसायिककार्यक्रमस्य च सहभागितार्थं काठमाण्डूं आगतः अस्ति। काठमाण्डूनगरस्य दरबारमार्गस्थिते पञ्चतारकाहोटेल् बाराही इत्यत्र नवनिर्मितस्य बादशाह् कैसिनो इत्यस्य उद्घाटनकार्यक्रमः शुक्रवासरे आयोजितः अस्ति। तस्य दलः अवदत् यत् सः अत्र द्विदिनपर्यन्तं स्थास्यति।
विमानस्थले माध्यमैः सह संक्षिप्तवार्तालापे संजयदत्तः उक्तवान् यत् नेपालदेशे आगत्य सदा विशेषां प्रसन्नतां अनुभवति। सः नेपालीदर्शकेभ्यः कृतज्ञतां व्यक्त्वा अवदत् यत् नेपालदेशेन सह तस्य भावनात्मकः सम्बन्धः अस्ति तथा भविष्ये सः नेपाली चलचित्रोद्योगेन सह अपि कार्यं कर्तुम् इच्छति। चलचित्रोद्योगसम्बद्धाः जानकाराः मन्यन्ते यत् संजयदत्तस्य एषा यात्रा नेपालभारतयोः चलचित्रोद्योगयोः मध्ये सहयोगं अधिकं सुदृढं करिष्यति।
---------------
हिन्दुस्थान समाचार