रायपुरम् : बालोद जिल्लायाम् अद्यारभ्य पञ्च दिवसीय राष्ट्रीया रोवर-रेंजर जंबूरी इति, राज्यपालः करिष्यति शुभारंभम्
रायपुरम् 09 जनवरीमासः (हि.स.)। छत्तीसगढराज्यस्य बालोद्-जनपदस्य कृते एतत् अत्यन्तं गौरवविषयः अस्ति यत् भारत-स्काउट्स्-एवं-गाइड्स्, नयी-दिल्ली इत्यस्य तत्वावधाने जनपदमुख्यालयात् समीपस्थे दुधली-ग्रामे अद्य गुरुवासराद् आरभ्य १३ जनवरीपर्यन्तं “प्रथमः
रायपुरम् : बालोद जिल्लायाम् अद्यारभ्य पञ्च दिवसीय राष्ट्रीया रोवर-रेंजर जंबूरी इति, राज्यपालः करिष्यति शुभारंभम्


रायपुरम् 09 जनवरीमासः (हि.स.)।

छत्तीसगढराज्यस्य बालोद्-जनपदस्य कृते एतत् अत्यन्तं गौरवविषयः अस्ति यत् भारत-स्काउट्स्-एवं-गाइड्स्, नयी-दिल्ली इत्यस्य तत्वावधाने जनपदमुख्यालयात् समीपस्थे दुधली-ग्रामे अद्य गुरुवासराद् आरभ्य १३ जनवरीपर्यन्तं “प्रथमः राष्ट्रियः रोवर्-रेञ्जर्-जम्बूरी” इति विशालः भव्यश्च कार्यक्रमः आयोजितः भवति। एषः आयोजनः देशे प्रथमवारं आयोजितः भवति, यस्मिन् छत्तीसगढराज्यात् ४२५२ प्रतिभागिनः सहितं देशविदेशेभ्यः समग्रतया १५००० रोवराः, रेञ्जराः तथा वरिष्ठ-स्काउट्-गाइडाः सहभागं करिष्यन्ति।

प्रथमस्य राष्ट्रियस्य रोवर्-रेञ्जर्-जम्बूरीस्य शुभारम्भः अद्य अपराह्ने द्विवादने राज्यपालः रमेन-डेका मुख्यातिथिरूपेण करिष्यति। कार्यक्रमस्य अध्यक्षता भारत-स्काउट्स्-एवं-गाइड्स्-संस्थायाः राष्ट्रियाध्यक्षः तथा पूर्व-राज्यसभासांसदः डॉ. अनिल-जैनः करिष्यति। उद्घाटनसमारोहस्य अवसरें अनेके गणमान्याः अतिथयः उपस्थिताः भविष्यन्ति। अतिविशिष्टातिथिरूपेण प्रदेशस्य विद्यालयशिक्षामन्त्री गजेन्द्र-यादवः, कांकेर-लोकसभासांसदः भोजराज-नागः, तथा मुख्यः राष्ट्रियः आयुक्तः डॉ. के.के. खण्डेलवालः उपस्थिताः भविष्यन्ति। तदतिरिक्तं विधायकाः, राज्य-जनपद-प्रशासनस्य वरिष्ठाधिकारिणः, भारत-स्काउट्स्-एवं-गाइड्स्-संस्थायाः राष्ट्रिय-राज्यपदाधिकारीणः, तथा स्थानीयजनप्रतिनिधयः अपि समारोहस्य गरिमां वर्धयिष्यन्ति।

जम्बूरीस्य समापनसमारोहस्य अवसरें १२ जनवरी २०२६ तमे दिने मुख्यमन्त्री विष्णुदेव-सायः मुख्यातिथिरूपेण उपस्थितः भविष्यति। एवमेव आयोजनस्य विभिन्नदिवसेषु विधानसभा-अध्यक्षः डॉ. रमण-सिंहः, केन्द्रीय-राज्यमन्त्री तोखन-साहूः, उपमुख्यमन्त्री अरुण-सावः, वनमन्त्री केदार-कश्यपः, वित्तमन्त्री ओ.पी. चौधरी इत्यादयः अनेकाः राष्ट्रिय-राज्यस्तरीयाः अतिथयः सहभागं करिष्यन्ति।

पञ्चदिवसीयस्य अस्य आयोजनस्य दौरान् छत्तीसगढसहितं देशस्य विभिन्नराज्येभ्यः तथा अन्यदेशेभ्यः आगतैः प्रतिभागिभिः विविधाः रंगारंगाः सांस्कृतिककार्यक्रमाः प्रस्तूयन्ते। अस्य जम्बूरीकार्यक्रमस्य माध्यमेन छत्तीसगढीया भारतीयसंस्कृतिः एव न, अपि तु वैश्विकसंस्कृतेः अपि आकर्षकं दर्शनं लभ्यते।

---------------

हिन्दुस्थान समाचार