Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ०९ जनवरीमासः (हि.स.)।मुख्यमन्त्री श्रीविष्णुदेवसायेन सह अद्य शुक्रवासरे मुख्यमन्त्री–निवासे पूर्व–राज्यसभा–सांसद: एवं भारत–स्काउट्स–एवं–गाइड्सस्य राष्ट्रीय–अध्यक्ष: डॉ.अनिलजैन: सौजन्य–मिलनं कृतवान्। मुख्यमन्त्री साय: जैनस्य छत्तीसगढ़–प्रवासे स्वागतं कुर्वन् तं बस्तर–कला–प्रतिचिह्नेन सम्मानितवान्।मुख्यमन्त्री साय: अवदत् – “छत्तीसगढस्य बालोद–जनपदे प्रथमवारम् आयोज्यमानाय पञ्चदिवसीय–राष्ट्रीय–रोवर–रेंजर–जंबूरी-कार्यक्रमाय डॉ.अनिलजैनाय हार्दिक–शुभकामनाः। एषः कार्यक्रमः छत्तीसगढ–यूनां गौरवस्य विषयः भविष्यति।”सः अवदत् यत् – “डॉ.अनिलजैनस्य सक्षम–नेतृत्वे भारत–स्काउट्स–एवं–गाइड्स-इत्यस्य राष्ट्रीय–स्तरीय-आयोजनं छत्तीसगढे आयोज्यते, यत् राज्याय महत्वपूर्ण–सिद्धिः अस्ति। अयं जंबूरीकार्यक्रम: युवसु अनुशासनम्, नेतृत्व–कौशलम्, सामाजिक–उत्तरदायित्वं तथा सेवा–भावं दृढीकर्तुं प्रभावी–मञ्चं भविष्यति। विभिन्न–राज्येभ्यः आगतानां रोवर–रेंजर-इत्येतै: छत्तीसगढस्य सांस्कृतिकम्, सामाजिकम्, युवा–शक्ते: राष्ट्रीय–स्तरे दृढतया प्रदर्शनं भविष्यति।”मुख्यमन्त्री साय: सविश्वासम् उक्तवान् – “एषः जंबूरी न केवलं यून: राष्ट्र–निर्माण–दिशि प्रेरयिष्यति, अपि तु ‘एक भारत–श्रेष्ठ भारत’–भावनाम् अपि दृढीकरिष्यति। छत्तीसगढ–सर्वकार: यूनां सर्वाङ्ग–विकासाय एतादृश–आयोजनानि निरन्तरं प्रोत्साहितुम् इच्छति।”अस्मिन् अवसरे मुख्यमन्त्रिण: प्रधान–सचिवः सुबोधकुमारसिंह:, मुख्यमन्त्री–सचिवेन राहुलभगतेन च सह अन्ये गणमान्यजना: उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता