भारतीय सेनायाः मिलिट्री इंटेलिजेंस इत्यस्य महानिदेशकः लेफ्टिनेंट जनरल रमनः लुम्बिनीभ्रमणमकरोत्
काठमांडूः, 09 जनवरीमासः (हि.स.)। भारतीयसेनायाः मिलिटरी इण्टेलिजेन्स् विभागस्य महानिदेशकः (डीजीएमआई) लेफ्टिनेन्ट् जनरल् आरएस् रमनः गुरुवासरे लुम्बिनीभ्रमणार्थं नेपालदेशं प्राप्तवान्। तस्य स्वागतं लुम्बिनीविकासकोषस्य सदस्यसचिवः दीपकश्रेष्ठः अकरोत्।
भारतीय सेना मिलिट्री इंटेलीजेंस प्रमुख रमन लुंबिनी में


काठमांडूः, 09 जनवरीमासः (हि.स.)।

भारतीयसेनायाः मिलिटरी इण्टेलिजेन्स् विभागस्य महानिदेशकः (डीजीएमआई) लेफ्टिनेन्ट् जनरल् आरएस् रमनः गुरुवासरे लुम्बिनीभ्रमणार्थं नेपालदेशं प्राप्तवान्। तस्य स्वागतं लुम्बिनीविकासकोषस्य सदस्यसचिवः दीपकश्रेष्ठः अकरोत्।

लेफ्टिनेन्ट् जनरल् रमनः लुम्बिन्याः प्रमुखान् धार्मिकान् ऐतिहासिकांश्च स्थलान् अवलोकितवान्। सः मायादेवीमन्दिरं, पुष्करिणीसरः तथा भारतदेशस्य प्रधानमन्त्रीणा नरेन्द्रमोदिना रोपितस्य पिप्पलवृक्षस्य निरीक्षणं कृतवान्। अस्मिन् अवसरे सदस्यसचिवः श्रेष्ठः रमनाय भगवान् बुद्धस्य प्रतिमां उपहाररूपेण अयच्छत्।

सदस्यसचिवः लुम्बिन्याः संरक्षणविषये, पर्यटनविकासे, अन्ताराष्ट्रियसम्बन्धेषु तथा सांस्कृतिकधरोहरसंरक्षणसम्बद्धेषु आव्हानेषु उपलब्धिषु च चर्चां कृतवान्। लेफ्टिनेन्ट् जनरल् रमनः अपि लुम्बिन्याः महत्त्वे, सांस्कृतिकआदानप्रदाने तथा द्विपक्षीयसहयोगे स्वविचारान् सहकृतवान्।

---------------

हिन्दुस्थान समाचार