Enter your Email Address to subscribe to our newsletters


यूनां चरित्र निर्माणं कुरुते राष्ट्रियः स्वयंसेवकसंघः
लखनऊ,09 जनवरीमासः (हि.स.)।लखनउ-नगरे रामाधीनसिंह-उत्सवलाने गुरुनानक-बस्त्या आयोजिते हिन्दुसम्मेलने सम्बोधनं कुर्वतः ऋतेश्वरमहाराजः अवदत् यत् राष्ट्रीयस्वयंसेवकसंघः युवानां चरित्रनिर्माणं करोति। यूनां चरित्रनिर्माणेन राष्ट्रस्यापि चरित्रनिर्माणं भवति। सः अवदत् यत् सनातनसमाजस्य उत्थानं तदैव सम्भवति यदा वयं परस्परमतभेदान् विस्मृत्य सामाजिकैक्यस्य समरसतायाश्च सूत्रे बद्धाः भवामः।
ऋतेश्वरमहाराजः अवदत् यत् राष्ट्रिस्वयंसेवकसंघस्य स्वयंसेवकः समाजे समत्वभावनां, राष्ट्रदेवस्य आराधनां, मातृभारत्याः वैभवकामनां च पुरस्कृत्य कार्यं करोति। युवान् आह्वयन् सः अवदत्— हीनताबोधस्य परित्यागं कुरुत, निर्भीकाः भवत, गौरवानुभूतिं च प्राप्नुत। वयं हिन्दवः स्मः। देशस्य धर्मस्य च रक्षणार्थं अग्रे आगच्छत।सः अवदत्— गवां मातॄणां विज्ञानं यदि पश्यथ तर्हि आश्चर्यचकिताः भविष्यथ। यदि वयं स्वस्य कृषिं स्वास्थ्यं च पुनः सशक्तं कर्तुम् इच्छामः तर्हि स्वदेशीयगौमातृविज्ञानं अवगन्तव्यं तस्य सम्मानश्च कर्तव्यः।
सम्मेलने मुख्यवक्तारूपेण उपस्थितः राष्ट्रियस्वयंसेवकसंघस्य प्रान्तप्रचारकः कौशलः अवदत् यत् भारतं परमवैभवे नेतुम् उद्दिश्य डा. केशवबलिरामहेडगेवारः सन् 1925 तमे वर्षे राष्ट्रियस्वयंसेवकसंघस्य स्थापना कृतवान्। संघस्थापनस्य शतवर्षपूर्तौ शताब्दीवर्षे पञ्चपरिवर्तनविषये आधृत्य अनेकानि आयोजनानि प्रचलन्ति। प्रान्तप्रचारकः अवदत्— हिन्दुसमाजः हिन्दुनाम्ना, हिन्दुनेतृत्वं च हिन्दूनां हितार्थं दृढतया स्थित्वा कार्यं करोतु। समाजे हिन्दुत्वभावः दृढः भवितव्यः।कार्यक्रमस्य संचालनं प्रो. अमितकुशवाहेन कृतम्। अस्मिन् अवसरे अखिलभारतीयसाहित्यपरिषदः राष्ट्रियमहामन्त्री डा. पवनपुत्रबादलः, वरिष्ठप्रचारकः अशोककेडिया, सहप्रान्तकार्यवाहः डा. अविनाशः, प्रान्तस्य धर्मजागरणप्रमुखः सुरेन्द्रः, विभागप्रचारकः अनिलः, बजरङ्गदलस्य जिलासंयोजकः शुभमसिंहः, प्रशान्तभाटिया, ललितश्रीवास्तवश्च प्रमुखरूपेण उपस्थिताः आसन्।
हिन्दुस्थान समाचार