Enter your Email Address to subscribe to our newsletters

पेरिसम् (फ्रांस), 09 जनवरीमासः (हि.स.)।
फ्रान्सदेशस्य यात्रायाम् आगतः भारतदेशस्य विदेशमन्त्री डॉ. एस्. जयशङ्करः अत्र राष्ट्रपतिना इमैनुएल् मैक्रों इत्यनेन सह भेंटं कृतवान्। सः तस्मै भारतदेशस्य प्रधानमन्त्रिणो नरेन्द्रमोदिनः शुभेच्छाः समर्पितवान्। एतां सूचनां जयशङ्करः एक्स् नामके माध्यमे सचित्रं सहकृतवान्।
डॉ. एस्. जयशङ्करः एक्स् माध्यमे अलिखत्— “अद्य फ्रान्सदेशस्य राष्ट्रपतिं इमैनुएल् मैक्रों इत्येनं प्रति प्रधानमन्त्रिणः नरेन्द्रमोदिनः शुभेच्छाः प्रदाय अहं अत्यन्तं प्रसन्नः अभवम्। समसामयिकेषु वैश्विकेषु घटनाक्रमेषु तस्य विचारान् तथा च अस्माकं रणनीतिकसाझेदारीं प्रति तस्य सकारात्मकभावनां अहं अत्यन्तं प्रशंसामि।”
विदेशमन्त्री जयशङ्करः अन्यस्मिन् लेखने अलिखत्— “अद्य पेरिसनगरे फ्रान्सदेशस्य राजदूतानां सम्मेलनं सम्बोधितुं मम कृते गौरवस्य विषयः अस्ति। अहं व्यापारवित्ततन्त्रप्रौद्योगिकीऊर्जासंसाधनसम्पर्कतया उत्पद्यमानानां वर्तमानवैश्विकपरिवर्तनानां विषये विशेषं बलं दत्तवान्। चिन्तनपरिवर्तनं महत्त्वपूर्णः कारकः अभवत्। तथा च बहुध्रुवीयतायाः रणनीतिकस्वायत्ततायाः च प्रवर्धने भारत–फ्रान्ससाझेदारीयाः महत्त्वे अपि अहं उक्तवान्।”
उल्लेखनीयं यत् एतस्मात् पूर्वं जयशङ्करः पेरिसनगरे प्रथमवारं स्ववाइमर् (जर्मनी, फ्रान्स, पोलाण्ड्) समकक्षैः सह वैश्विकविषयेषु चर्चां कृतवान्। अस्मिन् अवसरे सः स्वसमकक्षैः सह भारत–यूरोपियनयूनियनसम्बन्धानां सुदृढीकरणविषये तथा च हिन्द–प्रशान्तप्रदेशस्य आव्हानेषु अपि विचारविनिमयं कृतवान्।
भारतीयः विदेशमन्त्री डॉ. जयशङ्करः फ्रान्सदेशस्य विदेशमन्त्रिणा जीन् नोएल् बैरट् इत्यनेन सह भेंटानन्तरं अवदत् यत् यूरोपः वैश्विकस्तरे महत्त्वपूर्णः क्रीडाकारः अस्ति, तथा च भारतयूरोपयोः सम्बन्धाः सुदृढाः भवितुं आवश्यकाः। भारतः फ्रान्सश्च वैश्विकराजनीतौ अर्थव्यवस्थायां च स्थैर्यं स्थापयितुं समर्थौ स्तः।
---------------
हिन्दुस्थान समाचार