भा.ज.पा.–दलं झारखण्ड–राज्ये २३ नव–निर्वाचित–जिलाध्यक्षानां सूचीं प्रकाशितवान्
राँचीनगरम्, ०९ जनवरीमासः (हि.स.)। भारतीय–जनता–दलस्य (भा.ज.पा.) प्रदेश–निर्वाचन–अधिकारी, महामन्त्री तथा सांसदः डॉ.प्रदीप–वर्मा शुक्रवासरे झारखण्ड–राज्यस्य २३ सांघटनिक–जनपदेषु नव–निर्वाचित–जिलाध्यक्षानाम् अधिकृतां सूचीं प्रकाशितवान्। अस्मिन् अवसरे ड
फाइल फोटो


राँचीनगरम्, ०९ जनवरीमासः (हि.स.)। भारतीय–जनता–दलस्य (भा.ज.पा.) प्रदेश–निर्वाचन–अधिकारी, महामन्त्री तथा सांसदः डॉ.प्रदीप–वर्मा शुक्रवासरे झारखण्ड–राज्यस्य २३ सांघटनिक–जनपदेषु नव–निर्वाचित–जिलाध्यक्षानाम् अधिकृतां सूचीं प्रकाशितवान्।

अस्मिन् अवसरे डॉ.प्रदीप–वर्मा अवदत् यत् विधानसभानिर्वाचनानन्तरं प्रदेशे ‘संघटन–पर्व’ आरब्धम् आसीत्। तस्य अन्तर्गतं प्राथमिक–सक्रिय–सदस्यताया: पूर्तेः अनन्तरं मण्डल–स्तरे तथा जनपद–स्तरे निर्वाचन–प्रक्रिया सम्पन्ना अभवत्।डॉ.वर्मा अवदत् यत् अस्य एव क्रमस्य अन्तर्गतं दलं २३ सांघटनिक–जनपदेषु जिलाध्यक्ष–निर्वाचन–प्रक्रियां सफलतया पूर्णं कृतवान्। घोषित–सूच्यनुसारम् —दुमका–जनपदात् रूपेश–मण्डलः,पाकुड़–जनपदात् सरिता–मुर्मू,जामताडा–जनपदात् सुमित–शरणः,देवघर–जनपदात् सचिन–रवानी,गोड्डा–जनपदात् लक्ष्मी–चक्रवर्ती,साहेबगंज–जनपदात् गौतम–यादवः,धनबाद–ग्रामीण–जनपदात् मोहन–कुम्भकारः,धनबाद–महानगर–जनपदात् श्रवण–रायः,गिरिडीह–महानगर–जनपदात् रंजीत–कुमार–रायः,गिरिडीह–ग्रामीण–जनपदात् महेंद्र–वर्मा,हजारीबाग–जनपदात् विवेकानन्द–सिंहः,चतरा–जनपदात् रामदेव–भोक्ता,रामगढ़–जनपदात् संजीव–कुमारः,राँची–महानगर–जनपदात् वरुण–साहू,राँची–पूर्वी–जनपदात् विनय–महतो (धीरेज),राँची–पश्चिम–जनपदात् नरेन्द्र–सिंहः,गुमला–जनपदात् सागर–उराँव,सिमडेगा–जनपदात् दीपक–पुरी,पलामू–जनपदात् अमित–तिवारी,लातेहार–जनपदात् बंशी–यादवः,चाईबासा–जनपदात् गीता–बालमुचू,चक्रधरपुर–जनपदात् दीपक–पासवानः,तथा सरायकेला–खरसावाँ–जनपदात् हरे–कृष्ण–प्रधानःजिलाध्यक्ष–पदे निर्वाचिताः सन्ति।डॉ.वर्मा अपि अवदत् यत् संघटनस्य अधिक–सुदृढीकरणाय राँची–ग्रामीण–जनपदः पूर्वी–पश्चिमी–इति द्वयोः जनपदयोः विभक्तः कृतः। तदनन्तरं चक्रधरपुरः तथा गिरिडीह–ग्रामिणः नव–सांघटनिक–जनपदत्वेन गठितौ स्तः। दलं नारी–सशक्तीकरणे विशेषं बलं दत्तवान्, येन घोषितेषु २३ जनपदाध्यक्षेषु तिस्र: महिलाः अपि समाविष्टाः सन्ति। तासू चतस्र: अनुसूचित–जनजाति–वर्गात्, एका च अनुसूचित–जाति–वर्गात् अस्ति। अपि च अष्टौ जिलाध्यक्षाः पुनः निर्वाचिताः सन्ति।राँची–महानगर–जिलाध्यक्ष–घोषणायां प्रदेश–अध्यक्षः तथा विपक्ष–नेता बाबूलाल–मराण्डी, पूर्व–प्रदेश–अध्यक्षः तथा सांसदः दीपक–प्रकाशः उपस्थिताः आसन्। राँची–पूर्वी–पश्चिम–जिलाध्यक्ष–घोषणायां कार्यकारी–अध्यक्षः तथा सांसदः आदित्य–साहू अपि उपस्थितः आसीत्। दुमका–नगरि पूर्व–मुख्यमन्त्री चम्पाई–सोरेनः तथा पूर्व–प्रदेश–अध्यक्षः अभयकान्त–प्रसादः, गिरिडीह–नगरि पूर्व–प्रदेश–अध्यक्षः रविन्द्र–कुमार–रायः, रामगढ़–नगरि प्रदेश–उपाध्यक्षः राकेश–प्रसादः च उपस्थिताः आसन्।प्रदेश–अध्यक्षः बाबूलाल–मराण्डी, कार्यकारी–अध्यक्षः आदित्य–साहू, पूर्व–प्रदेश–अध्यक्षः दीपक–प्रकाशः, क्षेत्रीय–संघटन–महामन्त्री नागेन्द्र–त्रिपाठी, प्रदेश–संघटन–महामन्त्री कर्मवीर–सिंहः, तथा प्रदेश–महामन्त्री एवं सांसदः डॉ.प्रदीप–वर्मा सर्वान् नव–निर्वाचित–जिलाध्यक्षान् शुभाशयैः अभिनन्दनैश्च सम्मानितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता