Enter your Email Address to subscribe to our newsletters


प्रयागराजः, 09 जनवरीमासः (हि.स.)।गङ्गायमुनासरस्वत्याः पावने सङ्गमतटे माघमासे आयोजितः माघमेला केवलं धार्मिककर्मकाण्डेषु एव सीमितः नास्ति, अपि तु सः बोलीनां, लोकगीतानां, लोककथानां, जनविश्वासानां च विशालः सांस्कृतिकमञ्चः अपि अस्ति। माघमेला भारतीयलोकसंस्कृतेः आत्मा इव मन्यते। अवधी, भोजपुरी, ब्रज, बुन्देली इत्यादिषु जनभाषासु माघमेलस्य वर्णनं सरलम्, भावपूर्णम्, अत्यन्तं चित्रात्मकं च दृश्यते।
एताः भावनाः उत्तरमध्यक्षेत्रसांस्कृतिककेन्द्रेण, भारतसरकारस्य संस्कृतिमन्त्रालयस्य आयोजनायां साहित्यिकसांस्कृतिकसंगोष्ठ्यां आयुर्वेदाचार्यः डॉ पुष्पेन्द्रप्रतापसिंहः शुक्रवासरे व्यक्तवान्। सः अवदत् यत् लोककथासु माघमेला मोक्षस्य, तपस्यायाः, चमत्कारस्य च स्थलरूपेण प्रकाशते। साधुसन्तानां सिद्धयः, कल्पवासिनां कथाः, सङ्गमस्नानेन जीवनपरिवर्तनस्य आख्यानानि च पीढीपरम्परया लोकमानसे प्रचलितानि सन्ति। अद्यतनकाले मेलस्य स्वरूपे परिवर्तनं जातमपि, तथापि अद्यापि जनाः शान्तिं, सुकूनं, आध्यात्मिकानुभूतिं, दिव्यऊर्जां च प्राप्तुं सङ्गमतटं आगच्छन्ति।
अस्मिन् एव अवसरे साहित्यकारः तथा इलाहाबादडिग्रीमहाविद्यालयस्य विधिविभागस्य सहायकाचार्यः डॉ श्लेषगौतमः अवदत् यत् तीर्थराजः प्रयागः—यत्र प्रतिवर्षं माघमेलः, षड्वर्षे अर्धकुम्भः, द्वादशवर्षे महाकुम्भश्च आयोजितः भवति—तस्य उल्लेखः वेदेषु, पुराणेषु, उपनिषद्सु, रामायणे, रामचरितमानसे, महाभारते च, तथा लोकसाहित्ये नानाजनभाषासु च दृश्यते।
कार्यक्रमस्य अन्तर्गतं ब्रह्मनादकलामहोत्सवप्रतियोगिता अपि आयोजिताभवत्। तत्र गायनविद्यायां दश, चित्रकलायां पञ्चविंशतिः प्रतिभागिनः स्वस्वकलात्मकप्रतिभां प्रदर्शितवन्तः। प्रतियोगितायाः निर्णायकमण्डले राज्यललितकलाअकादम्याः सदस्यः रविन्द्रकुशवाहः तथा वरिष्ठचित्रकारा डॉ कावेरीविज च समाविष्टौ आस्ताम्। कार्यक्रमसलाहकारा कल्पनासहायः सर्वान् वक्तॄन् अङ्गवस्त्रैः पौधैश्च सम्मानितवती, प्रतिभागिनश्च प्रमाणपत्रैः अलङ्कृतवती। कार्यक्रमस्य संचालनं प्रभाकरत्रिपाठीः कृतवान्।
---------------
हिन्दुस्थान समाचार