माघ–मेलायां पञ्च आयुर्वेदिक–चिकित्सालया: स्थापिताः
प्रयागराजनगरम्, ०९ जनवरीमासः (हि.स.)।माघ–मेलायां श्रद्धालूनां स्वास्थ्य–सेवार्थं राष्ट्रीय–आयुष–मिशन–उत्तरप्रदेश–शासनस्य पक्षण: पञ्च आयुर्वेदिक–चिकित्सा–शिविराणि तथा पञ्च होमियोपैथिक-चिकित्सा–शिविराणि स्थापितानि सन्ति। प्रत्येकस्मिन् चिकित्सा–शिविर
माघ मेला में आयुष मिशन उत्तर प्रदेश के आयुर्वेदिक अस्पताल शिविर का छाया चित्र


माघ मेला में आयुष मिशन उत्तर प्रदेश के स्थापित आयुर्वेदिक अस्पताल का छाया चित्र


प्रयागराजनगरम्, ०९ जनवरीमासः (हि.स.)।माघ–मेलायां श्रद्धालूनां स्वास्थ्य–सेवार्थं राष्ट्रीय–आयुष–मिशन–उत्तरप्रदेश–शासनस्य पक्षण: पञ्च आयुर्वेदिक–चिकित्सा–शिविराणि तथा पञ्च होमियोपैथिक-चिकित्सा–शिविराणि स्थापितानि सन्ति। प्रत्येकस्मिन् चिकित्सा–शिविरे १०० त: अधिकाः श्रद्धालवः उपचारार्थम् आगच्छन्ति। एषा सूचना शुक्रवासरे माघ–मेला–प्रभारी डॉ.मनोजेन दत्ता।सब: अवदत् यत् आयुष–मन्त्रालयेन माघ–मेलायाम् आगतानां श्रद्धालूनां स्वास्थ्य–सेवार्थं होमियोपैथिक–पञ्च–चिकित्सालया: तथा आयुर्वेदिक–पञ्च–चिकित्सालया: स्थापिताः सन्ति।मुख्य–केन्द्रं संचलनक्षेत्रम्, फोर्ट–मार्गस्य पार्श्वे, संगमात् प्रत्यागमन–मार्गे स्थापितम् अस्ति।एकः चिकित्सालय: मेलाक्षेत्रस्य काली–मार्गस्य पार्श्वे स्थापितः अस्ति।एकः अन्नपूर्णा–मार्गे स्थितः अस्ति।द्वौ चिकित्सालयौ यमुना–नद्याः तटे अरैल–क्षेत्रे, कल्पवासिनां श्रद्धालूनां च सेवायै चिकित्सकैः कर्मचारिभिश्च सह उपस्थितौ स्तः।सर्वेषु चिकित्सा–शिविरेषु श्रद्धालुभ्यः निःशुल्क–औषध–वितरणं क्रियते।मेलाक्षेत्रे दूर–दूरप्रदेशेभ्यः आगच्छन्तः श्रद्धालवः औषध–प्राप्त्यर्थं सर्वेषु चिकित्सा–शिविरेषु उपस्थिताः भवन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani