नमामि–गङ्गे–योजनया पञ्च नूतनाः परियोजनाः प्रारब्धाः
नवदिल्ली, ०९ जनवरीमासः (हि.स.)। नदीनां प्रदूषण–मुक्तिकरण–दिशि महत्त्वपूर्णं पादम् अग्रे स्थापयन् ‘नमामि गङ्गे–योजना’ स्वप्रगत्यै अधिकं वेगं दत्तवान्। योजनाया: द्वितीय–चरणान्तर्गतं वित्तीय–वर्षे २०२५–२६ तृतीय–त्रैमासे पञ्च नूतनाः विशालाः च सीवरेज–अव
नमामि गंगे मिशन


नवदिल्ली, ०९ जनवरीमासः (हि.स.)। नदीनां प्रदूषण–मुक्तिकरण–दिशि महत्त्वपूर्णं पादम् अग्रे स्थापयन् ‘नमामि गङ्गे–योजना’ स्वप्रगत्यै अधिकं वेगं दत्तवान्। योजनाया: द्वितीय–चरणान्तर्गतं वित्तीय–वर्षे २०२५–२६ तृतीय–त्रैमासे पञ्च नूतनाः विशालाः च सीवरेज–अवसंरचना–परियोजनाः सफलतया प्रवर्तिताः सन्ति। एताभिः परियोजनाभिः नदीनां स्वच्छीकरण–प्रयत्नेषु अभूतपूर्वं बलं प्राप्यते।जलशक्ति–मन्त्रालयस्य कृते शुक्रवासरे निर्गता सूचना कथयति यत् अस्मिन् वित्तीय–वर्षे अद्यावधि नव परियोजनाः प्रवर्तिताः सन्ति, येन प्रमुख–नगरीय–केन्द्रेषु सीवेज–उपचार–क्षमतायाम् उल्लेखनीयं वृद्धिं प्राप्तम्। एताः परियोजनाः सीवेज–ट्रीटमेन्ट–प्लान्टाः (STP) सन्ति, याः नगराणां दूषितं जलं नदीषु विसर्जनात् पूर्वं शुद्धीकुर्वन्ति।एताभिः पञ्च नव–परियोजनाभिः सह नमामि–गङ्गा–कार्यक्रमे प्रवर्तितानां STP–निर्माणिनां समग्र–क्षमता ३,९७६ MLD (मिलियन–लीटर–प्रतिदिनम्) इति अभवत्। तदनन्तरं प्रवर्तित–STP–निर्माणिनां संख्या १७३ इति अभवत्। एतेन विविध–राज्येषु प्रदूषण–नियन्त्रणं तथा नदी–पुनर्जीवन–प्रयत्नाः सुदृढीकृताः सन्ति।उत्तरप्रदेशस्य शुक्लागञ्जे (गङ्गा–तीरे) ६५–कोटि–रूप्यक–व्ययेन ५ MLD–क्षमतायुक्ता निर्माणी प्रवर्तिता, येन ३–लक्ष–जनाः लाभं प्राप्स्यन्ति।आग्रानगरे (यमुना–नदी) ८४२–कोटि–रूप्यक–व्ययेन ३१ MLD तथा ३५ MLD–क्षमतायुक्तौ द्वौ विशालौ निर्माण्यौ प्रवर्तितौ, येन २५–लक्ष–नागरिकाः लाभान्विताः भविष्यन्ति।वाराणस्यां (गङ्गा–तीरे) ५५ MLD–क्षमतायुक्ता निर्माणी प्रवर्तिता, येन १८–लक्षं जनाः लाभं प्राप्स्यन्ति।पश्चिमबङ्गालस्य उत्तर–बैरकपुरे गङ्गा–स्वच्छीकरणाय ३० MLD–क्षमतायुक्ता नूतना निर्माणी प्रवर्तिता। अस्यै परियोजनायै १५४–कोटि–रूप्यकाणां स्वीकृतिः दत्ता, येन २.२–लक्ष–जनाः लाभान्विताः सन्ति।बिहारस्य पटनानगरे कङ्कडबाग–क्षेत्रे स्थितस्य पूर्ववर्ती–निर्माण्या: क्षमता १५ MLD तः ३० MLD पर्यन्तं वर्धिता।ततः पूर्वं द्वितीय–त्रैमासे उधमसिंहनगरम् (उत्तराखण्ड:), मुरादाबादः (उत्तरप्रदेश:), महेशतला तथा जङ्गीपुरम् (पश्चिमबङ्गाल:) इत्येतेषु परियोजनाः प्रवर्तिताः आसन्।उल्लेखनीयं यत् एतेन नगराणां बहु अनुपचारितं दूषितं जलं गङ्गा–यमुना–नदीषु प्रत्यक्षं न प्रवहिष्यति। परिणामतः नदीनां प्रदूषणं न्यूनं भविष्यति, ताः अधिकं स्वच्छाः भविष्यन्ति, तथा च नगरेषु सीवेज–प्रबन्धनम् अधिकं सुदृढं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता