Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०९ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी १०–११ जनवरीमासयोः गुजरात–राज्यस्य सोमनाथं प्रवासं करिष्यति तथा ‘सोमनाथ–स्वाभिमान–पर्वणि’ सहभागं करिष्यति। एषः कार्यक्रमः सोमनाथ–मन्दिरस्य प्रथमारोपण–आक्रमणस्य सहस्रवर्ष–पूर्णताया: उपलक्ष्ये आयोजितः भवति, यः भारतस्य अखण्ड–सभ्यतागत–निरन्तरता–तथा अदम्य–आत्मबलस्य प्रतीकः अस्ति।प्रधानमन्त्री–कार्यालयेन शुक्रवासरे सूचितं यत् निर्धारित–कार्यक्रमानुसारं १० जनवरीमासस्य रात्रौ प्रायः ८ वादने प्रधानमन्त्री सोमनाथ–मन्दिर–परिसरे ‘ॐकार–मन्त्रस्य’ सामूहिक–जपेषु सहभागं करिष्यति। ततः परं सः मन्दिर–परिसरे आयोजितं ड्रोन–दृश्य–प्रदर्शनम् अपि द्रक्ष्यति।११ जनवरीमासस्य प्रातःकाले प्रायः ९:४५ वादने प्रधानमन्त्री शौर्य–यात्रायाम् सहभागं करिष्यति। एषा यात्रा भव्य–तथा प्रतीकात्मक–शोभायात्रा भविष्यति, या सोमनाथ–मन्दिर–रक्षणार्थं स्वप्राणान् बलिदानं कृतवन्तः असंख्याः वीरान् प्रति सम्मान–प्रदर्शनार्थम् आयोजिता अस्ति। अस्याम् यात्रायां १०८ अश्वानां प्रतीकात्मक–पदयात्रा अपि समाविष्टा भविष्यति, या वीरता–बलिदानयोः प्रतीकं वर्तते।ततः पश्चात् प्रातः प्रायः १०:१५ वादने प्रधानमन्त्री सोमनाथ–मन्दिरे दर्शनं तथा पूजा–अर्चनां करिष्यति। प्रातः प्रायः ११ वादने सः सोमनाथे आयोजितायां जनसभायां सहभागं कृत्वा उपस्थितं जनसमूहं सम्बोधयिष्यति।समारोह–काले देशस्य सर्वेषु प्रदेशेषु आगताः शतं सन्ताः सहभागं करिष्यन्ति तथा मन्दिर–परिसरे ७२ होराः पर्यन्तं निरन्तरं ‘ॐ’–मन्त्र–जपः प्रचलिष्यति। प्रधानमन्त्रिण: एषा सहभागिता भारतस्य समृद्ध–सांस्कृतिक–आध्यात्मिक–परम्पराया: संरक्षणे उत्सवे च तस्य दृढ–प्रतिबद्धतायाः प्रतीकरूपेण द्रष्टुं शक्यते।८–११ जनवरीमासपर्यन्तम् आयोजितस्य सोमनाथ–स्वाभिमान–पर्वणः उद्देश्यं तेषां अनगणितानां भारतीय–नागरिकानां बलिदानस्य स्मरणं कर्तुं वर्तते, ये शताब्दीनां यावत् सोमनाथ–मन्दिर–रक्षणाय संघर्षं कृतवन्तः, येषां त्यागः अग्रिम–सन्ततिनां सांस्कृतिक–चेतनां प्रेरयिष्यति।एतत् आयोजनं १०२६ तमे वर्षे महमूद–गजनवी–द्वारा सोमनाथ–मन्दिर–उपरि कृतस्य आक्रमणस्य सहस्रवर्ष–पूर्णतां स्मारयति। शताब्दिषु पुनः–पुनः विध्वंस–प्रयत्नानाम् अपि मध्ये सोमनाथ–मन्दिरम् अद्यापि श्रद्धा, दृढ–संकल्पः, तथा राष्ट्रीय–गौरवस्य सशक्तं प्रतीकं वर्तते।स्वातन्त्र्योत्तरकाले सोमनाथ–मन्दिर–पुनर्निर्माणस्य संकल्पः सरदार–वल्लभभाई–पटेलस्य नेतृत्वे कृतः आसीत्। अस्य पुनरुत्थान–यात्रायाः एकः महत्त्वपूर्णः कार: १९५१ तमे वर्षे अभवत्, यदा तत्कालीन–राष्ट्रपतिः डॉ.राजेन्द्र–प्रसादस्य उपस्थितौ पुनर्निर्मितं सोमनाथ–मन्दिरं श्रद्धालुभ्यः उद्घाटितम्। २०२६ तमे वर्षे अस्य ऐतिहासिक–पुनर्स्थापनस्य ७५ वर्ष–पूर्णतायाः अवसरः सोमनाथ–स्वाभिमान–पर्वणे विशेषं महत्त्वं ददाति।
हिन्दुस्थान समाचार / अंशु गुप्ता