Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अद्य सोमनाथधाम्नो महिमानं स्मारयन् अवदत् यत् अस्य भव्यं विरासतं शताब्द्यः यावत् जनजनस्य चेतनां जागरयन्ती आगता अस्ति। सः अवदत् यत् सोमनाथधामात् प्रवहन्ती दिव्या ऊर्जाः युगयुगान्तरेषु अपि श्रद्धायाः साहसस्य स्वाभिमानस्य च दीपं प्रज्वालयन्ती भविष्यति।
प्रधानमन्त्रीः एक्स इति सामाजिकमाध्यमे सोमनाथधामस्य आध्यात्मिकमहत्त्वं दर्शयन्तं एकं संस्कृतश्लोकं अपि सहकृतवान्—
आदिनाथेन शर्वेण सर्वप्राणिहिताय वै।
आद्यतत्त्वान्यथानीयं क्षेत्रमेतन्महाप्रभम्।
प्रभासितं महादेवि यत्र सिद्ध्यन्ति मानवाः॥
अस्य श्लोकस्य अर्थः एषः यत् एतत् क्षेत्रं आदिनाथेन भगवान् शिवेन सर्वप्राणिनां कल्याणार्थं प्रतिष्ठापितम्। एतत् स्थानं आद्यतत्त्वैः युक्तं अत्यन्तं प्रभावशाली च महान् अस्ति। हे देवि एषः प्रभासक्षेत्रं पावनं स्थलं यत्र मानवाः स्वजीवनस्य लक्ष्यं सिद्धिं च प्राप्नुवन्ति।
प्रधानमन्त्री अवदत् यत् सोमनाथधामः केवलं मन्दिरं न अपि तु भारतस्य सनातनसंस्कृतेः अखण्डश्रद्धायाः आत्मगौरवस्य च सजीवः प्रतीकः अस्ति। सः अपि अवदत् यत् सोमनाथः सर्वकालेषु देशाय आत्मविश्वासस्य पुनर्निर्माणस्य च प्रेरणां दत्तवान्।
---------------
हिन्दुस्थान समाचार