प्रधानमन्त्री १२ जनवरीमासे अहमदाबादे जर्मनी–देशस्य चांसलर-फ्रेडरिक्–मर्जेन सह साक्षात्कारं करिष्यति
नवदिल्ली, ०९ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी १२ जनवरीमासे अहमदाबादे जर्मनी–देशस्य चांसलर-फ्रेडरिक–मर्जेन सह साक्षात्कारं करिष्यति। जर्मनी–चान्सलर-फ्रेडरिक–मर्जः प्रधानमन्त्री–मोदिन: निमन्त्रणेन १२–१३ जनवरीमासयोः भारतस्य आधिकारिक–यात्
प्रधानमंत्री नरेन्द्र मोदी और जर्मनी के चांसलर फ्रेडरिक मर्ज (फाइल फोटो)


नवदिल्ली, ०९ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी १२ जनवरीमासे अहमदाबादे जर्मनी–देशस्य चांसलर-फ्रेडरिक–मर्जेन सह साक्षात्कारं करिष्यति। जर्मनी–चान्सलर-फ्रेडरिक–मर्जः प्रधानमन्त्री–मोदिन: निमन्त्रणेन १२–१३ जनवरीमासयोः भारतस्य आधिकारिक–यात्रायै आगच्छति। एषा तस्य भारतस्य प्रथमाऽधिकारिक–यात्रा भविष्यति। प्रधानमन्त्री–कार्यालयेन शुक्रवासरे निर्गत–वक्तव्येन एषा सूचना दत्ता।वक्तव्ये उक्तं यत् निर्धारित–कार्यक्रमानुसारं १२ जनवरीमासे प्रातः प्रायः ९:३० वादने प्रधानमन्त्री–मोदी तथा चान्सलर–मर्जः साबरमती–आश्रमस्य दर्शनं करिष्यतः। तदनन्तरं प्रातः प्रायः १० वादने उभौ नेतारौ साबरमती–नदी–तटे आयोजिते अन्ताराष्ट्रिय–पतङ्ग–महोत्सवे भागं ग्रहीष्यतः। ततः परं प्रातः ११:१५ वादनात् गान्धीनगर–स्थिते महात्मा–मन्दिरे द्विपक्षीय–वार्ताः भविष्यन्ति।सभायाम् उभौ नेतारौ भारत–जर्मनी–रणनीतिक–सन्धे: अन्तर्गतं जातायाः प्रगतिसमीक्षां करिष्यतः, या सम्प्रतिकालात् २५ वर्षाणि पूर्णवती। वार्तायां व्यापार–निवेश:, प्रौद्योगिकी, शिक्षा, कौशल–विकासः, आवागमनम्, तथा रक्षा–सुरक्षा, विज्ञानम्, नवाचारः, अनुसन्धानम्, हरित–सतत–विकासः इत्यादिषु महत्त्वपूर्णेषु क्षेत्रेषु सहयोगस्य अधिकं सुदृढीकरणं विशेषतया चर्च्यते।अतिरिक्ततया प्रधानमन्त्री–मोदी तथा चान्सलर–मर्जः क्षेत्रीय–वैश्विक–महत्त्वस्य विषयेषु विचार–विनिमयं करिष्यतः तथा उभय–देशयोः व्यापार–उद्योग–जगतः नेतृभिः सह संवादम् अपि करिष्यतः।

हिन्दुस्थान समाचार / अंशु गुप्ता