Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 जनवरीमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी लोकसभाध्यक्षः ओमबिरलश्च अन्यैः सह मन्त्रीगणैः शुक्रवासरे प्रवासीभारतीयदिवसस्य अवसरं निमित्तीकृत्य देशे विदेशेषु च निवसतां भारतीयसमुदायं हार्दिकाः शुभाशयाः प्रेषिताः।
प्रधानमन्त्री नरेन्द्रमोदीः सामाजिकमाध्यमे एक्स इति प्रसिद्धे माध्यमे अवदत्—
“प्रवासीभारतीयदिवसस्य हार्दिकाः शुभाशयाः। भारतीयः प्रवासीसमुदायः भारतं विश्वं च दृढेन सेतुना संयोजयति। यत्र यत्र ते गताः तत्र तत्र समाजान् समृद्धान् अकरोत्, स्वमूलैः सह अपि नितरां सम्बद्धाः अभवन्। भारतीयाः प्रवासिनः अस्माकं राष्ट्रदूताः सन्ति। तान् भारतस्य समीपतरं नेतुं अस्माभिः सरकारेण अनेकानि उपायानि स्वीकृतानि सन्ति।”
लोकसभाध्यक्षः ओमबिरलः अवदत् यत् ये भौगोलिकसीमाभ्यः दूरं स्थित्वापि येषां मनसि विचारेषु कर्मसु च भारतं सदा जीवतं तिष्ठति, ते प्रवासीभारतीयाः न केवलं भारतस्य समृद्धपरम्पराणां संवाहकाः सन्ति, अपि तु वैश्विकमञ्चे देशस्य प्रतिष्ठायाः विश्वासस्य च दृढाः सेतवः अपि सन्ति।
केन्द्रीयः सडकपरिवहनराजमार्गमन्त्री नितिनगडकरीः अवदत् यत् भारतस्य विकासे प्रवासीभारतीयसमुदायस्य महत्त्वपूर्णं योगदानम् अस्ति। सर्वैः प्रवासिभिः भारतस्य सांस्कृतिकमूल्यानि विश्वे श्रेष्ठरूपेण प्रदर्शितानि, येन देशः गौरवान्वितः अभवत्।
वाणिज्यउद्योगमन्त्री पियूषगोयलः अवदत् यत् भारतीयाः प्रवासिनः आर्थिकशक्त्या ज्ञानसंस्कृतिसम्बन्धैः च स्वस्य महत्त्वपूर्णयोगदानं दत्त्वा विकसितभारत २०४७ इति लक्ष्यस्य कृते अन्तरराष्ट्रीयसहकार्यवर्धने अग्रणीं भूमिकां निर्वहन्ति।
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अवदत् यत् ज्ञानविज्ञानव्यापारकलासंस्कृतिसेवारूपेषु सर्वेषु क्षेत्रेषु प्रवासीभारतीयैः परिश्रमेण प्रतिभया संस्कारैश्च भारतस्य गरिमा नूतनशिखराणि प्रति नीताः सन्ति।
केन्द्रीयः कृषिकिसानकल्याणमन्त्री शिवराजसिंहचौहानः अवदत् यत् प्रवासीभारतीयानां प्रयत्नैः न केवलं भारतस्य सामर्थ्यं वैश्विकां मान्यतां प्राप्तम्, अपि तु आर्थिकसामाजिकविकासे अपि महत्त्वपूर्णं योगदानं कृतम्।
---------------
हिन्दुस्थान समाचार