Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 जनवरीमासः (हि.स.)।
गर्भवतीनां स्तन्यपानं कुर्वतीनां च मातॄणाम् आर्थिकसहायां कर्तुं केन्द्रसर्वकारेण प्रवर्तिता प्रधानमन्त्री मातृ वन्दना योजना अन्तर्गत् गताष्टवर्षेषु सवाचारकोट्यधिकाः महिलाः साहाय्यं प्राप्तवत्यः। योजनायाः आरम्भात् ८ जनवरी २०२६ पर्यन्तं ४.२६ कोटि महिलाभ्यः २००६० कोटिरूप्यकाणां मातृत्वसहायाः प्रदत्ताः सन्ति।
प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्याः योजनायाः प्रगतिः समीक्षिता, यत्र अवेदितं यत् तान्त्रिकसुधारैः योजनायाः क्रियान्वयनं अधिकं सुदृढं कृतम् अस्ति। डिजिटलनिरीक्षणेन मुखपरिचयप्रणाल्या ड्यूलिस्ट् इत्यादिव्यवस्थाभिश्च न केवलं पात्रलाभार्थिभ्यः समये सहायाः प्राप्यन्ते, अपि तु कपटाचारस्य प्रभावी निवारणमपि क्रियते।
प्रधानमन्त्री मातृ वन्दना योजना ०१ जनवरी २०१७ तः देशव्यापिनीरूपेण प्रवर्तते। अस्यां योजनायां प्रथमसन्तानजन्मनि ५००० रूप्यकाणि, द्वितीयसन्तानजन्मनि च यदि कन्या भवति तर्हि ६००० रूप्यकाणि साहाय्यरूपेण प्रत्यक्षलाभान्तरणप्रणाल्या लाभार्थिनां बैंकखातेभ्यः प्रदीयन्ते।
मन्त्रालयस्य अधिकरिणा अवेदितं यत् वित्तवर्षे २०२५–२६ अद्यावधि ५९.१९ लक्ष लाभार्थिभ्यः २०२२.०८ कोटिरूप्यकाणां भुगतानं कृतम् अस्ति। मंत्रालयेण अपि सूचितं यत् २१ मई २०२५ तः प्रधानमन्त्री मातृ वन्दना योजनायां नूतनपञ्जीकरणाय मुखपरिचयप्रणाल्या जैवमितीयसत्यापनं अनिवार्यं कृतम् अस्ति। एषा सुविधा पोषणट्रैकर् माध्यमेन उपलब्धा कारिता। अद्यावधि २३.६० लक्षाधिकाः महिलाः अस्याः प्रणाल्याः माध्यमेन पञ्जीकृताः सन्ति। एतेन योजनायाः लाभः केवलं वास्तविकाभ्यः पात्राभ्यः महिलाभ्यः एव दत्तः इति सुनिश्चितं भवति। एषा व्यवस्था इदानीं देशस्य ७४० अधिकजिलासु प्रवर्तते।
लाभार्थिनां स्वयमेव कार्यालयपरिभ्रमणस्य आवश्यकतां निवारयितुं पोषणट्रैकरस्य प्रदत्तानाम् आधारेण सम्भाव्यलाभार्थिनां ड्यूलिस्ट् इति सूची निर्मीयते। एषा सूची आंगनवाडीकर्मकरिभ्यः आशाकर्मकरिभ्यश्च प्रदीयते, ये गृहं गृहं गत्वा पात्रमहिलानां पञ्जीकरणं कुर्वन्ति।
-----------
हिन्दुस्थान समाचार