Enter your Email Address to subscribe to our newsletters

कानपुरम्, 09 जनवरीमासः (हि.स.)।
जीविकामेलानां माध्यमेन छात्रच्छात्राभ्यः विविधासु प्रतिष्ठितासु संस्थासु जीविकावसराः प्राप्यन्ते। जीविकामेला यूनां भविष्यनिर्माणे अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वहन्ति। उपस्थितान् छात्रच्छात्रान् स्वकौशलविकासे निरन्तरं ध्यानं दातुं प्रेरयन्ती एताः वाणीः शुक्रवासरे महापौरः प्रमिलापाण्डेया अवदत्।
उत्तरप्रदेशशासनस्य सेवायोजनविभागस्य “प्रत्येकं हस्तः प्रत्येकं परिवारं प्रति जीविका” इति संकल्पस्य अन्तर्गतं यूनाम् आत्मनिर्भरत्वप्राप्त्यर्थं प्रादेशिकसेवायोजनकार्यालयेन, कानपुरनगरस्थेन, तथा डीएवी (पीजी) महाविद्यालयेन संयुक्ततत्त्वावधाने महाविद्यालयपरिसरे एकदिवसीयः जीविकामेला आयोजिता अभवत्।
अस्य शुभारम्भः महापौरः प्रमिलापाण्डेया तथा सहायकसेवायोजनाधिकारी प्रिया गौतमया मातुः सरस्वत्याः प्रतिमायां माल्यार्पणं कृत्वा दीपप्रज्वलनेन कृतः। अस्मिन् अवसरॆ महाविद्यालयस्य प्राचार्यः अरुणकुमारदीक्षितः अतिथीन् पुष्पगुच्छैः स्मृतिचिह्नैश्च समादृत्य स्वागतं कृतवान्।
जीविकामेलायां शिफॉयर फूड्स इण्डिया लिमिटेड् (केएफसी), जनरली सेन्ट्रल लाइफ इन्श्योरेन्स (वित्तीयपरामर्शसेवा), अप्सरा इञ्जीनियरिङ्ग् (ब्लिंकिट्), एप्टीव् इण्डिया प्रा लि, टाटा ऑटोकॉम्प् सिस्टम्स् लिमिटेड्, कैरियर् ब्रिज् स्किल् सोल्यूशन्स्, पङ्कज् एण्टरप्राइजेस्, रक्षा सेक्योरिटी सर्विस्, ईडीयू विण्टेज् प्रा लि, श्रीराम् फाइनान्स् समूहः, शिवशक्ति एग्रीटेक् लिमिटेड्, पुखराज् हेल्थ् केयर् इत्यादयः अन्ये च बहवः संस्थासु सहभागिनः आसन्।
अस्यां जीविकामेलायाम् आहत्य त्रिशतचतुःत्रिंशदधिकद्विशत (२४३) छात्रच्छात्राः सहभागं कृतवन्तः, येषु एकशतैकपञ्चाशत् (१५१) छात्रछात्राः स्वशैक्षिकयोग्यतायाः साक्षात्कारस्य च आधारेण प्रतिमासं दशसहस्रात् पञ्चविंशतिसहस्ररूप्यकपर्यन्तं वेतनं प्राप्य शॉर्टलिस्ट् कृताः चयनिताश्च अभवन्। चयनितेभ्यः छात्रछात्रेभ्यः प्राचार्येण अरुणकुमारदीक्षितेन नियुक्तिपत्राणि वितरितानि।
जीविकामेलायां डीएवी (पीजी) महाविद्यालयस्य प्लेसमेण्ट् प्रभारी अनिलकुमारपाण्डा, रसायनविज्ञानप्राध्यापकः डी पी रावः, तथा सेवायोजनकार्यालयात् सतीशपाण्डेयः, क्षेमअग्निहोत्री, प्रखरचित्रांशः, शैलेन्द्रकुमारः, अजयकुमारशुक्लः, प्रशान्तकुमारः, शिवशङ्करसिंहः च सक्रियं सहयोगं प्रदत्तवन्तः।
हिन्दुस्थान समाचार