Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, 09 जनवरीमासः (हि.सं.)।उत्तरप्रदेशस्य हमीरपुरनगरे भारतीयजनतापक्षस्य जिलाकार्यालये अद्य आयोजितायां विकसितभारत–जीविकानाम् अनुबंधः तथा आजीविकामिशन ग्रामीण (वीबी–जी राम–जी) इति जनजागरणाभियानस्य प्रेसवार्तायां प्रभारीमन्त्री रामकेशनिषादः अवदत् यत् ग्रामीणभारतस्य आत्मनिर्भरत्वाय आधुनिकीकरणाय च विकसितभारत–जी राम–जी इति विधेयकं महत्त्वपूर्णं पदम् अस्ति।
प्रभारीमन्त्री रामकेशनिषादः अवदत् यत् वीबी–जी राम–जी योजना पूर्णतया कार्यान्वितं न भवति तावत् मनरेगा योजना पूर्णरूपेण प्रवर्तते एव। पुरातनायाः योजनायाः तुलनायां वीबी–राम–जी योजना जीविकानां, अवसंरचनायाः, कौशलस्य, प्रौद्योगिक्याः तथा स्थानीयसंसाधनानां उत्तमोपयोगस्य माध्यमेन ग्रामविकासं मुख्यधारया संयोजयितुं अभिकल्पिता अस्ति।
प्रभारीमन्त्री अवदत् यत् स्थानीयआवश्यकतानुसारं ग्रामपञ्चायतैः योजनानिर्माणं क्रियते। ग्रामविकासस्य उत्तमाय नियोजनाय प्रधानमंत्री-गतिशक्तिः तथा अन्यानि सूचना-प्रौद्योगिकी-साधनानि, यथा जीआईएस्, उपयुज्यन्ते। ग्रामस्य समेकितविकासार्थं अन्यैः विभागैः तथा विभागीययोजनाभिः सह अभिसरणं कर्तव्यं भविष्यति।
अस्यां प्रेसवार्तायां जिल्लाध्यक्षः शकुन्तलानिषादः, सदरविधायकः डॉ मनोजप्रजापतिः, विधानपरिषद्सदस्यः जितेन्द्रसिंहसेंगरः, तथा अन्ये बहवः वरिष्ठकार्यकर्तारः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार