Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 09 जनवरीमासः (हि.स.)।
उत्तराखण्ड-राज्यस्य मुख्यमन्त्री पुष्करसिंह-धामी स्वर्गीय-अङ्किता-भण्डारिणः मातापित्रोः अनुरोधं तयोः भावनाश्च सम्यक् सम्मानयन् अस्य बहुचर्चितस्य प्रकरणस्य केन्द्रीय-अन्वेषण-प्रशासनद्वारा (सीबीआई) जाँचां कारयितुं संस्तुतिं प्रदत्तवान्। मुख्यमन्त्रिणा स्पष्टं कृतं यत् राज्य-सरकार आरम्भात् एव न्याय-निश्चयनाय प्रतिबद्धा आसीत् तथा अग्रेऽपि पूर्णया दृढतया निष्पक्षतया संवेदनशीलतया च भगिन्या अङ्कितायै न्यायं दातुं संकल्पबद्धा भविष्यति।
मुख्यमन्त्री अवदत् यत् सरकारस्य उद्देश्यं आरम्भात् अन्तपर्यन्तं निष्पक्षेण पारदर्शकेन संवेदनशीलेन च प्रकारेण न्यायं सुनिश्चितं कर्तुमेव आसीत्। स्वर्गीय-अङ्किता-भण्डारी-महोदयायाः सह जाताया अत्यन्त-दुःखदाया हृदयविदारकाया घटनाया ज्ञाते सति राज्य-सरकारया किञ्चिदपि विलम्बं न कृत्वा शीघ्रं निष्पक्षा च कार्यवाही कृता। प्रकरणस्य गाम्भीर्यं दृष्ट्वा तत्क्षणमेव महिला-आईपीएस्-अधिकाऱिण्याः नेतृत्वे विशेष-अन्वेषण-दलस्य (एसआईटी) गठनं कृतम्।
तेन अवगतं कृतं यत् प्रकरणेन सम्बद्धाः सर्वे अभियुक्ताः शीघ्रमेव गृहीताः तथा राज्य-सरकारया प्रभावी सशक्त-पैरवी अपि सुनिश्चिताऽभवत्। अस्य परिणामः अयं जातः यत् विवेचनायाḥ परीक्षणस्य च सम्पूर्णे काले कस्यापि अभियुक्तस्य जमानतिः न प्राप्ता। एसआईटी-द्वारा कृताया गहन-अन्वेषणाया अनन्तरं अभियुक्तानां विरुद्धं आरोपपत्रं समर्पितम्, तथा अधस्तन-न्यायालयेन श्रवणं समाप्य अभियुक्तेभ्यः आजीवन-कारावास-दण्डः विधत्तः।
मुख्यमन्त्री अवदत् यत् एतत् सम्पूर्णं प्रकरणं अस्य स्पष्टं प्रमाणं यत् राज्य-सरकारया आरम्भात् अन्तपर्यन्तं निष्पक्षतया पारदर्शितया दृढतया च न्यायः सुनिश्चितः। तेन एतदपि अवगतं कृतं यत् समीपकाले सामाजिक-माध्यमेषु प्रसारितानां केषाञ्चन श्रव्य-दृश्यांशानां विषये पृथक्-पृथक् प्रथम-सूचना-प्रतिवेदनानि पञ्जीकृतानि सन्ति तथा तेषां जाँच-प्रक्रिया निरन्तरं प्रवर्तते।
मुख्यमन्त्री पुष्करसिंह-धामी-महोदयः द्विधा न कृत्वा अवदत् यत् सरकारस्य अभिप्रायः पूर्णतया स्पष्टः अस्ति तथा कस्यापि तथ्यस्य प्रमाणस्य वा उपेक्षा न करिष्यते। भावावेशेन सः अवदत् यत् अङ्किता केवलं पीडिता न आसीत्, अपि तु सा अस्माकमपि भगिनी पुत्री च आसीत्।
मुख्यमन्त्रिणा सूचितं यत् अद्यतने काले सः स्वयमेव स्वर्गीय-अङ्किता-भण्डारी-महोदयायाः मातापित्रोः सह साक्षात्कृतवान्। संवादकाले ताभ्यां अस्य प्रकरणस्य सीबीआई-जाँचायाः अनुरोधः कृतः, यं सरकार तयोः भावनानां सम्मानं कृत्वा स्वीकृतवती।---
हिन्दुस्थान समाचार