पेरिसे बीएचयूसंबद्धशिक्षकस्य भित्ति चित्राय लब्धा प्रशंसा,विश्वविद्यालयाय गौरवास्पदम्
वाराणसी,09 जनवरीमासः (​हि.स.)। भारतस्य सांस्कृतिकोपस्थितिं वैश्विकस्तरे सुदृढीकर्तुं काशीहिन्दूविश्वविद्यालयः पुनरपि एका महत्त्वपूर्णाम् उपलब्धिं प्राप्तवान्। भारतीयः कलाकारः भित्तिचित्रकारश्च दृश्यकलासंकायस्य बीएचयू विश्वविद्यालयस्य अध्यापकः प्रो
पेरिस में बीएचयू शिक्षक का भित्ति चित्र


पेरिस में बीएचयू शिक्षक का भित्ति चित्र


वाराणसी,09 जनवरीमासः (​हि.स.)।

भारतस्य सांस्कृतिकोपस्थितिं वैश्विकस्तरे सुदृढीकर्तुं काशीहिन्दूविश्वविद्यालयः पुनरपि एका महत्त्वपूर्णाम् उपलब्धिं प्राप्तवान्। भारतीयः कलाकारः भित्तिचित्रकारश्च दृश्यकलासंकायस्य बीएचयू विश्वविद्यालयस्य अध्यापकः प्रो सुरेश के नायरः फ्रान्सदेशे एकं सांस्कृतिकदायित्वं सफलतया निर्वह्य ख्यातिम् अर्जितवान्।

भारतीयदृश्यकलायाः समृद्धिं वैविध्यं च अन्तरराष्ट्रीयमञ्चे प्रस्तोतुं प्रवृत्ता एषा पहल भारतीयसांस्कृतिकसम्बन्धपरिषदः विदेशमन्त्रालयस्य भारतसरकारस्य च प्रायोजनेन सम्पन्ना। अस्याः परियोजनायाः अन्तर्गतं प्रो नायरः पेरिसनगरे स्थिते भारतीयदूतावासे स्वामिविवेकानन्द सांस्कृतिककेन्द्रे एकं भव्यं भित्तिचित्रं ससर्ज।

एतत् भित्तिचित्रं भारतस्य समृद्धदृश्यकलापरम्पराणां सजीवमिव चित्रणं करोति, यस्मिन् कथकली मणिपुरीनृत्यं कथकं थेय्यम् भरतनाट्यम् छायाकठपुत्तलिकाकला च इत्यादीनां शास्त्रीयलोककलाविधानानां सुन्दरः समन्वयः दृश्यते। पारम्परिकालंकरणशैल्यां स्वर्णिमप्रभया सह निर्मिता एषा कलाकृतिः भारतीयकलायाः गहनां सौन्दर्यचेतनां प्रतिबिम्बयति।

विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन एषा सूचना दत्ता। तत्र उक्तं यत् 10.5 फीट् गुणे 33.8 फीट् इति विशालपरिमाणे निर्मितं एतत् भित्तिचित्रं केवलं दशदिनानां सघनावधौ सम्पूर्णं कृतम्। प्रो नायरः अवदत् यत् एतत् भित्तिचित्रं सम्प्रति पेरिसनगरे स्थापितेषु भारतीयचित्रकर्मसु सर्वाधिकं विशालं मन्यते, यत् भारतीयकलायाः कृते ऐतिहासिकम् उपलब्धिरूपेण वर्तते।

फ्रान्सदेशे भारतस्य राजदूतः संजीव सिंगला तथा भारतीयसांस्कृतिकसम्बन्धपरिषदः महानिदेशिका के नन्दिनी सिंगला च अस्य भित्तिचित्रस्य प्रशंसां कृतवन्तौ। एषा परियोजना कलाकाराणां सांस्कृतिककर्मिणां राजनयिकानां कलाप्रेमिणां च मध्ये विशेषाकर्षणकेन्द्रं जाता, येन विदेशेषु भारतस्य सांस्कृतिकपरिचयः नवोन्नतिं प्राप्तवान् तथा काशीहिन्दूविश्वविद्यालयः अन्ताराष्ट्रियस्तरे गौरवं लब्धवान्।

---------------

हिन्दुस्थान समाचार