Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, 13 फ़रवरीमासः (हि.स.)।
निम्नमध्यमायवर्गस्य जनानां मांगलिकपारिवारिकसमारोहाणां कृते रियायतीमूल्येन उपलब्धः “कल्याणमण्डपम्” इति योजना योगिनः आदित्यनाथस्य जनकल्याणविजनस्य साकाररूपम् अस्ति। मुख्यमन्त्रिणः अभिप्रायानुसारं गोरखपुरनगरे वार्डस्तरे कल्याणमण्डपानां श्रेणी स्थाप्यते, यतः सामान्यजनानां कृते सुलभाः सुव्यवस्थिताः किफायतीसुविधाः च सुलभाः भवेयुः।
केवलं एकस्मिन् वर्षे महानगरे चत्वारि कल्याणमण्डपानि उद्घाटितानि सन्ति, पञ्चमस्य कल्याणमण्डपस्य लोकार्पणं शनिवासरे मुख्यमन्त्रिणः करकमलैः भविष्यति। एषा योजना विशेषतया तेषां परिवाराणां कृते उपकारकरी सिद्धा जाता, ये आर्थिकसीमाभ्यः महद् व्यययुक्तानां मैरिजहाउसस्य व्ययं वहितुं असमर्थाः आसन्।
कल्याणमण्डपे सामान्यजनानां कृते मैरिजहाउससदृश्याः आधुनिकाः आवश्यकाः च सुविधाः यथा विशालसभागारः, स्वच्छपरिसरः, पेयजलव्यवस्था, शौचालयाः अन्याश्च मूलभूतसुविधाः तेषां बजटानुसारं प्रदीयन्ते। अनेन सामाजिकसमारोहाणां आर्थिकभारः न्यूनीभवति तथा प्रत्येकवर्गाय सम्मानपूर्वकं आयोजनस्य अवसरः लभ्यते। एषा योजना सरकारस्य समावेशीसंवेदनशीलविकासनितेः अपि द्योतिका अस्ति, यस्यां समाजस्य प्रत्येकवर्गस्य आवश्यकताः प्राथमिकतया परिगण्यन्ते।
समाजस्य सर्वेषां वर्गाणां जीवनं सुकरं कर्तुं योगीसरकारेण गतवर्षेषु आधारभूतसंरचनातः जनकल्याणपर्यन्तं बहवः प्रयत्नाः कृताः। कल्याणमण्डपपरिकल्पना अपि तस्यैव श्रृंखलायाः अंशः अस्ति। प्रायः द्विवर्षपूर्वं मुख्यमन्त्रिणा गोरखपुरविकासप्राधिकरणाय नगरनिगमाय च एषः निर्देशः दत्तः यत् निम्नमध्यमायवर्गस्य जनानां मांगलिकसमारोहाणां कृते कल्याणमण्डपान् निर्माय उत्तमविकल्पः प्रदीयताम्। तदनन्तरं तेषां निर्माणकार्यं प्रारब्धम्। अस्य प्रयोजनाय मुख्यमन्त्रिणा स्वविधायकनिधेः धनराशिः अपि विनियोजिता।
फरवरी २०२५ तः फरवरी २०२६ पर्यन्तं गोरखपुरे चत्वारि कल्याणमण्डपानि उद्घाटितानि, पञ्चमस्य लोकार्पणं शनिवासरे जंगलतुलसीरामवार्डस्य बिछियामोहल्ले भविष्यति। एषः नूतनः कल्याणमण्डपः प्रायः २.४७ कोटिरूप्यकव्ययेन निर्मितः अस्ति। अन्येषु स्थानेषु अपि बहवः कल्याणमण्डपाः निर्माणाधीनाः सन्ति।
कल्याणमण्डपनिर्माणस्य मुख्योद्देश्यः आवश्यकपरिवाराणां कृते विवाहः, तिलकसंस्कारः, मुण्डनम् अन्ये सामाजिकसांस्कृतिककार्यक्रमाः च किफायतीमूल्येन आधुनिकसुविधासहितं सम्पन्नाः स्युः इति।
बिछियास्थितः कल्याणमण्डपः ११२० वर्गमीटरपरिमिते क्षेत्रे निर्मितः अस्ति तथा अस्मिन् एकस्मिन् समये ३०० जनानां कार्यक्रमाः आयोजयितुं शक्यन्ते। अत्र विशालः सभाहॉलः, पाकशाला, भाण्डारगृहं, स्त्रीपुरुषाणां पृथक्शौचालयव्यवस्था च सम्यक् उपलब्धा अस्ति। अनेन क्षेत्रवासिनां सामाजिकजीवनं अधिकं सुकरं सुविधाजनकं च जातम्।
हिन्दुस्थान समाचार