Enter your Email Address to subscribe to our newsletters

भाजपायाः वरिष्ठ–नेता तथा पूर्व–केन्द्रीय–मन्त्री रविशङ्कर–प्रसादः शुक्रवासरे दल–मुख्यालये आयोजितायां पत्रकार–वार्तायां अवदत् यत् संसदस्य वित्त–सत्रे राहुल–गान्धेः नेतृत्वे कांग्रेस–नेतॄणाम् आचरणेन एतत् स्पष्टं दृश्यते यत् ते संसदस्य मर्यादां नियमावलीं च न पालयन्ति।
सः अवदत् यत् राहुल–गान्धिन: संकेतम् एव अनुसृत्य कांग्रेसस्य महिला–सांसदाः अपि अमर्यादितं व्यवहारं कृतवत्यः। यदा यदा राहुलः विदेशं गच्छति, तदा तदा सः भारत–विरोधीनि कार्याणि करोति इति सः आरोपं कृतवान्। विदेशेषु भारत–विरोधी–कृत्येषु संलग्नता तस्य पूर्वतः एव आचरणम् अस्ति इति अपि सः अवदत्।
रविशङ्कर–प्रसादः उक्तवान् यत् राहुल–गान्धिना सदा एव भारतीय–सेनायाः मनोबलं क्षीणीकर्तुं प्रयत्नः कृतः। सेनां प्रति तेन दत्तानि कथनानि सैनिकानां मनोबलं न्यूनं कृतवन्ती। पूर्व–सेनाध्यक्षस्य एम.एम. नरवणे–महाभागस्य ग्रन्थ–विषये अपि राहुल–गान्धिना असत्यं कथितम्। यदा प्रकाशकेन लेखकेनापि स्पष्टं कृतं यत् ग्रन्थः प्रकाशितः न जातः, तर्हि संशयस्य अवकाशः कुत्र? तथापि राहुल–गान्धिना मिथ्या–वृत्तान्तं निरन्तरं प्रसारितम्। संसदे असत्य–कथनं तथा लोकतन्त्रस्य दुर्बलीकरणं दृष्ट्वा अत्यन्तं पीडा भवति इति सः अवदत्।
भाजपायाः वरिष्ठ–नेता अवदत् यत् राहुल–गान्धी भारतदेशं सम्यक् न अवगच्छति। अद्यत्वे तु तस्य राष्ट्रीयस्वयंसेवकसंघविषये भयः जायते। राहुल–गान्धिना सह पण्डित–नेहरू, इन्दिरा–गान्धी, राजीव–गान्धी च पूर्वमेव संघस्य आलोचनां कृतवन्तः। अद्य संघः विश्वस्य सर्वातिवृहत्तमं स्वयंसेवी–सङ्घटनम् अस्ति। कांग्रेसेन त्रीणि निर्वाचनानि पराजितानि, तस्य कुण्ठा तेषां व्यवहारं स्पष्टतया प्रकाशयति।
वन्दे–मातरम्–गीतं सर्वेषु शासकीय–कार्यक्रमेषु अनिवार्यकरणविषयमधिकृत्य प्रसादः कांग्रेस–पक्षात् तस्य स्थितिं स्पष्टां कर्तुं आह्वानं कृतवान्। तेन उक्तं यत् तृणमूल–कांग्रेस–दलं सहित्यं अन्येऽपि तेषां सहयोगिनः अस्य निर्णयस्य विरोधं कुर्वन्ति। कांग्रेस–पक्षेण अद्यावधि सर्वकारस्य अस्य निर्णयस्य विषये स्वपक्षः न स्पष्टः कृतः। अत: स्पष्टं यत् कांग्रेसः मत–बैंक–राजनीतिं करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता