रेखा गुप्ता केरले भाजपाया: पार्षदैः सह संवादं कृतवती, अवदत्— राज्ये परिवर्तनस्य सम्भावना अनुभूयते
नवदिल्ली, १३ फरवरीमासः (हि.स.)।दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता शुक्रवासरे भारतीयजनतापक्षस्य (भाजपा) केन्द्रीय–कार्यालये केरलतः आगतानां ११५ पार्षदानां प्रतिनिधि–मण्डलेन सह संवादं कृतवती। अस्मिन् अवसरे भाजपाया: राष्ट्रीय–संघटन–महामन्त्री बी.एल
भाजपा के केंद्रीय कार्यालय में केरल पार्षदों के प्रतिनिधिमंडल से संवाद करती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, १३ फरवरीमासः (हि.स.)।दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता शुक्रवासरे भारतीयजनतापक्षस्य (भाजपा) केन्द्रीय–कार्यालये केरलतः आगतानां ११५ पार्षदानां प्रतिनिधि–मण्डलेन सह संवादं कृतवती। अस्मिन् अवसरे भाजपाया: राष्ट्रीय–संघटन–महामन्त्री बी.एल.संतोष: अपि उपस्थितः आसीत्।

मुख्यमन्त्री अवदत् यत् वी.वी.राजेशेन सह आगतानां एतेषां जनप्रतिनिधीनां कृते त्रिदिवसीया कार्यशाला आयोजिता। अस्याः कार्यशालायाः मुख्योद्देश्यं स्थानीय–स्तरे संघटनस्य अधिक–सशक्तीकरणं तथा सुशासन–नीतिनां प्रभावशीलतया कार्यान्वयनम् इति।

सा अवदत् यत् केरलराज्ये एतावती संख्या भाजपाया: पार्षदानां निर्वाचनं परिवर्तनस्य सम्भावनां सूचयति। एषा तु सा नूतना प्रभा या केरलराज्ये महद् परिवर्तनं जनयिष्यति। केरलं वर्षाणि यावत् विकासाभावेन, जनतायाः अवसराभावेन च, हिंसात्मक–राजनीत्याः कारणेन पश्चाद्गमनं अनुभूतवती। सा आशां व्यक्तवती यत् अनया नूतनया प्रभया सह विकसितं सुरक्षितं च केरलं भविष्यति। विकसितेन भारतदेशेन सह विकसितं केरलं अपि भविष्यति, अग्रिमकाले च भाजपा महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

मुख्यमन्त्री अवदत् यत् “राष्ट्रं प्रथमम्” इति विचारधारया तथा विकसित–केरलस्य संकल्पेन सह एते निष्ठावन्तः कार्यकर्तारः प्रत्येकस्मिन् बूथे पद्म–चिह्नस्य विजयाय पूर्ण–ऊर्जया संकल्पिताः सन्ति।

अस्मिन् अवसरे केरल–भाजपाया: अध्यक्षः राजीवचंद्रशेखर: तथा दिल्लीराज्यस्य महापौरः राजा इकबाल: अपि उपस्थितौ आस्ताम्।

हिन्दुस्थान समाचार / Dheeraj Maithani