Enter your Email Address to subscribe to our newsletters

कोलकाता, 13 फरवरीमासः(हि.स.)। बाङ्ग्लादेशस्य आमनिर्वाचनफलितेषु भारतस्य दृष्टिः एकाग्रा आसीत्। मतगणनायाः अन्तिमचरणे एतत् प्रायः स्पष्टं जातम् यत् बाङ्ग्लादेश नेशनलिस्ट पार्टी (बीएनपी) इति दलं स्पष्टबहुमतेन सह शासनं स्थापयितुं गच्छति। द्विशतनवनवतिसदस्ययुक्तायां संसदायां बहुमतसंख्यां अतिक्रम्य सत्तापरिवर्तनं निश्चितम् इति मन्यते।
अनेन सह भारतीय जनता पार्टी (भाजपा) इत्यस्य वरिष्ठनेता दिलीप घोषः आशां व्यक्तवान् यत् अधुना पड़ोसीदेशे शान्तिः पुनः प्रतिष्ठास्यते तथा भारतदेशेन सह सम्बन्धाः अपि उत्तमाः भविष्यन्ति।
शेख हसीना-सरकारस्य पतनानन्तरं बाङ्ग्लादेशे राजनैतिक-अस्थिरतायाः वातावरणं वर्तते स्म। अतः एतत् निर्वाचनं अत्यन्तमहत्त्वपूर्णम् अभवत्। जनानां पुरतः मुख्यप्रश्नः आसीत् यत् देशस्य शासनदायित्वं बीएनपी दलं वहिष्यति उत जमात् इति। शुक्रवासरस्य प्रभाते प्राप्तैः प्रवृत्तिसूचनैः एतत् स्पष्टं जातम् यत् दिवंगता खालिदा जिया-सम्बद्धा पार्टी शासनगठनस्य स्थितौ अस्ति।
फलितेषु प्रकाशितेषु सति भाजपा-नेता दिलीप घोषः स्वप्रतिक्रियां दत्तवान्। सः उक्तवान् यत् बीएनपी-नेतृत्वे बाङ्ग्लादेशे शान्तिः स्थैर्यं च पुनः आगमिष्यतः तथा भारत-बाङ्ग्लादेशयोः सम्बन्धाः अधिकं सुदृढाः भविष्यन्ति। शेख हसीना-सरकारस्य पतनानन्तरं बाङ्ग्लादेशे हिन्दूनां विरुद्धं आक्रमणप्रकरणेषु पश्चिमबङ्ग-भाजपा निरन्तरं मुखरा आसीत्। तस्मिन् काले दिलीप घोषः बाङ्ग्लादेशीय-उत्पादानां बहिष्कारस्य अपि आह्वानं कृतवान्, विपक्षनेता शुभेन्दु अधिकारी अपि अनेकासु घटनासु तीव्रां प्रतिक्रियां प्रदर्शितवान्।
शुक्रवासरे दिलीप घोषः अवदत् यत् उत्तमं यत् बाङ्ग्लादेशस्य जनाः स्वस्य नूतनां सरकारं निर्वाचितवन्तः। सरकारे यः कश्चन भवतु, सः अस्माकं पड़ोसीदेशः अस्ति, स्थायिनी सरकार अस्ति चेत् देशे शान्तेः अपेक्षा क्रियते। सः अपि अवदत् यत् भारतदेशेन सह सम्बन्धाः श्रेष्ठाः भविष्यन्ति। तस्य मतम् आसीत् यत् सरकारस्य दायित्वं भवति देशस्य प्रत्येकनागरिकस्य सुरक्षां कर्तुम्, अतः नूतनसरकारेण अल्पसंख्यक-हिन्दूनां संरक्षणम् अपि कर्तव्यमेव।
निर्वाचनायोगस्य अनुसारं अस्मिन् वर्षे कुलं ६०.६९ प्रतिशतं मतदानं अभवत्। डाकमतपत्रेषु ८०.११ प्रतिशतं मतानि अभवन्, तेषु ७०.२५ प्रतिशतं वैधानिकानि स्वीकृतानि। जनमतसंग्रहे ७७.७ प्रतिशतं मतानि ‘बीएनपी’ पक्षे आसन्।
उल्लेखनीयं यत् व्यापक-उत्साहस्य मध्ये मतदानं शान्तिपूर्वकं सम्पन्नम् अभवत् तथा कस्यापि महत् हिंसक-संघर्षस्य वार्ता न प्राप्ता।
राजधानी ढाका-नगरे जमात् अपेक्षया श्रेष्ठं प्रदर्शनं कृतवती, तथापि शासनगठनदौडायां बीएनपी अग्रे अस्ति। राजनैतिक-विश्लेषकानां मतम् अस्ति यत् नूतननेतृत्वस्य समक्षं आन्तरिक-स्थैर्यस्य स्थापना तथा पड़ोसीदेशैः विशेषतः भारतदेशेन सह सन्तुलित-सम्बन्धानां संवर्धनम् इति महत्यः परिस्थितयो भविष्यति।--------------------
हिन्दुस्थान समाचार