Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ फरवरीमासः (हि.स.)।लोकसभायां वित्तीय–सत्रस्य (बजट्–सत्रस्य) प्रथमः चरणः शुक्रवासरे समापितः। पीठासीन–अधिकारिणी संध्या–राय-महोदयया सदनस्य कार्यवाही ९ मार्चपर्यन्तं स्थगिता। अधुना वित्तविवरण–सत्रस्य द्वितीयः चरणः ९ मार्चमासतः आरभ्यते, यः २ एप्रिलमासपर्यन्तं प्रवर्तिष्यते।
लोकसभायाः कार्यवाही पूर्वाह्णे ११ वादने आरब्धायां, कांग्रेस–पक्षस्य अन्येषां च विपक्षी–दलानां सदस्याः पेट्रोलियम–प्राकृतिक–वायुमन्त्रिणः हरदीप–सिंह–पुरी–महोदयस्य नियुक्तित्यजनं (इस्तीफाम्) आह्वयन्तः कोलाहलं कृतवन्तः। तदनन्तरं कार्यवाही मध्याह्ने १२ वादनपर्यन्तं स्थगिता अभवत्। १२ वादने पुनः कार्यवाही आरब्धायां, पीठासीन–अधिकारिणी संध्या–राय: अवदत् यत् अनेकै: सदस्यैः कार्यस्थगन–प्रस्तावस्य सूचना दत्ता, सा तु न स्वीकृता। ततः अनन्तरं सा शिक्षामन्त्रिणः धर्मेन्द्र–प्रधानस्य नाम आहूतवती। प्रधानेन स्व–मन्त्रालयसम्बद्धानां प्रश्नानां उत्तराणि सदनस्य पटलस्य उपरि प्रस्तुतानि।
तदनन्तरं केन्द्रीय–संस्कृति–मन्त्री गजेन्द्र–सिंह–शेखावत:, महिला–बाल–विकास–मन्त्री अन्नपूर्णा–देवी, विधि–न्याय–राज्यमन्त्री (स्वतन्त्र–प्रभारः) अर्जुनराम–मेघवाल:, आयुष–राज्यमन्त्री (स्वतन्त्र–प्रभारः) प्रतापराव–जाधव:, वाणिज्य–उद्योग–राज्यमन्त्री जितिन–प्रसाद:, गृह–राज्यमन्त्री नित्यानन्द–राय: तथा स्वास्थ्य–परिवार–कल्याण–राज्यमन्त्री अनुप्रिया–पटेल: इत्येते स्व–स्व–मन्त्रालयसम्बद्धानां प्रश्नानां उत्तराणि सदन–पटलस्य उपरि स्थापितवन्तः।
लोकसभायाः महासचिवः उत्पल–कुमार–सिंह: अवदत् यत् औद्योगिक–सम्बन्ध–संहिता (संशोधन) विधेयकः, २०२६ राज्यसभया अपि १२ फरवरीमासे किञ्चिदपि संशोधनं विना पारितः। अस्मात् पूर्वं सः विधेयकः लोकसभायां स्वीकृतः आसीत्। अनन्तरं पीठासीन–अधिकारिणी संध्या–राय: सदनस्य कार्यवाही ९ मार्चपर्यन्तं पुनः स्थगितवती।
उल्लेखनीयम् अस्ति यत् संसदः वित्तविवरण–सत्रम् २८ जनवरीमासे आरब्धम् आसीत् तथा ०१ फरवरीमासे केन्द्रीय–वित्तविवरणं (केन्द्रीय–बजट्) प्रस्तुतम् आसीत्।
हिन्दुस्थान समाचार / Dheeraj Maithani