प्रदेशे समग्रे अद्य मनरेगा रक्षणीया पदयात्रा निष्कासनीयः कांग्रेसपक्षः
लखनऊ, 13 फरवरीमासः (हि.स.)। अखिलभारतीयकांग्रेससमितेः आह्वानेन उत्तरप्रदेश कांग्रेस समित्या अद्य प्रदेशव्यापिन्यां मनरेगा रक्षण पदयात्रा आयोज्यते। प्रदेशस्य विविधेषु जनपदेषु दलस्य वरिष्ठ नेतारः पदयात्रायां सहभागी भविष्यन्ति। प्रदेश कांग्रेस अध्यक्षः
कांग्रेस विधायक आराधना मिश्रा मोना


लखनऊ, 13 फरवरीमासः (हि.स.)। अखिलभारतीयकांग्रेससमितेः आह्वानेन उत्तरप्रदेश कांग्रेस समित्या अद्य प्रदेशव्यापिन्यां मनरेगा रक्षण पदयात्रा आयोज्यते। प्रदेशस्य विविधेषु जनपदेषु दलस्य वरिष्ठ नेतारः पदयात्रायां सहभागी भविष्यन्ति। प्रदेश कांग्रेस अध्यक्षः अजय राय लखनऊ नगरे काकोरी शहीद स्मारकं गत्वा वीर शहीदानां प्रतिमासु माल्यार्पणं कृत्वा पदयात्रायाः शुभारम्भं करिष्यति।कांग्रेस विधायिका आराधना मिश्रा मोना शुक्रवासरे पत्रकारैः सह संवादं कुर्वन्ती उक्तवती यत् मनरेगा नाम योजना कदापि समाप्तुं न शक्यते। ग्राम्य प्रदेशेषु श्रमिकाणां आर्थिक सामाजिक अधिकारार्थं एषा या संघर्ष यात्रा अस्ति तां वयं अन्तिम क्षणपर्यन्तं वहिष्यामः। सा अवदत् यत् कांग्रेस कार्यकर्तारः पूर्णतया प्रतिबद्धाः सन्ति यत् केन्द्रस्थ सर्वकारस्य संवेदनहीन जनविरोधि नीतिं प्रति मार्गात् सदनपर्यन्तं संघर्षं कृत्वा योजनां पुनः सुदृढां करिष्यन्ति।-----------------------

हिन्दुस्थान समाचार