Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ फरवरीमासः (हि.स.)। स्त्री–बाल–विकास–मन्त्रालयेन शनिवासरे विज्ञान–भवनमध्ये ‘कार्यस्थले स्त्री–सुरक्षायाः राष्ट्रीय–सम्मेलनम् (SHE-BOX)’ आयोज्यमानम् अस्ति। सम्मेलनमध्ये केन्द्रीय–स्त्री–बाल–विकास–मन्त्री अन्नपूर्णा–देवी तथा स्त्री–बाल–विकास–राज्यमन्त्री सावित्री–ठाकुर:, समितीनां अध्यक्षाः सदस्याः च, नोडल–अधिकारी, अन्ताराष्ट्रिय–सङ्घटनानि, उद्योगपतयः, नागरिक–समाजस्य प्रतिनिधयः च सम्मिलिताः स्युः।
स्त्री–बाल–विकास–मन्त्रालयानुसारं अस्मिन् कार्यक्रमे उद्घाटन–सत्रम्, राष्ट्रियम् अन्ताराष्ट्रिय–गोलमेज–सम्मेलनम्, SHE-BOX–लोगो–अनावरणम्, राष्ट्रव्यापी पोश–प्रशिक्षण–दृश्य–सामग्री, सूचना–सञ्चार–प्रौद्योगिकी (IEC) सामग्री च, तथा कर्मयोगी भारतदेश: इत्यस्मिन् पोश–प्रशिक्षण–संपर्कस्य सर्वजन–प्रवेशः सुलभः भविष्यति।
सम्मेलनस्य लक्ष्यं अस्ति कार्यस्थले स्त्रियः सुरक्षिताः, गरिमापूर्णाः च कार्यस्थलानि निर्मातुं सर्वकारस्य प्रतिबद्धता सुनिश्चितं कर्तुं, तथा कार्यस्थले स्त्री–यौन उत्पीड़न–अवरोध: (Prevention of Sexual Harassment at Workplace) अधिनियम:, 2013–इत्यस्य प्रभावी क्रियान्वयनं दृढीकर्तुं अस्ति।
अस्मिन् अवसरे केन्द्रीय–मन्त्री अन्नपूर्णा–देवी सर्वेभ्यः राष्ट्रीय–कार्यस्थल–सुरक्षा–शपथं प्रदास्यति। प्रमुख–सत्रेषु कार्यस्थल–सुरक्षा–अनुपालनं, संस्कृति–सुदृढीकरणं च विषयकं राष्ट्रीयगोलमेजसम्मेलनम् आयोज्यते, असंगठित–क्षेत्रे विशेष–ध्यानं दत्तं भविष्यति। तद्व्यतिरिक्तं, वैश्विक–सर्वोत्तम–प्रथायां चर्चयितुं संयुक्त–राष्ट्र–संस्थाभि: बहुपक्षीयसंस्थाभिश्च मिलित्वा अन्ताराष्ट्रिय–गोलमेज–सम्मेलनम् आयोज्यते।
उल्लेखनीयम् यत् स्त्री–बाल–विकास–मन्त्रालयेन २९ अगस्तमासे २०२४ तमे दिने SHE-BOX पटलम् सुरक्षितम्, बहुभाषीयम्, उपयोगकर्ता–अनुकूलम्, एकैक–वातायन–मंचरूपेण शुभारब्धम्। अस्मिन् पटले अन्तर्जाल–सूचना–प्रेषणं, अन्तर्विभागीयं स्थानीयं वा समितिं स्वचालिततया अग्रे सारणे वास्तविक–समय–निरीक्षणे च सौविध्यं प्रयच्छति। एषा पारदर्शिता उत्तरदायित्वं च वर्द्धयति तथा पोशाधिनियमस्य प्रभावी–कार्यान्वयनाय सहायता–स्रोत: भवति। कार्यस्थलानि समिति–विवरणं, वार्षिक–प्रतिवेदनानि, जागरूकता–प्रशिक्षण–सामग्री च अपलोड्–कर्तुं सक्षमं करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता