'विश्व रेडियो दिवसे' प्रधानमंत्री मोदी 'मन की बात' निमित्तं जनतातः याचिताः परामर्शाः
नव दिल्ली, 13 फरवरीमासः (हि.स.)। ‘विश्व रेडियो दिवस’ इत्यस्य अवसरॆ प्रधानमन्त्री नरेन्द्र मोदी देशवासिभ्यः अभिनन्दनं प्रदत्तवान् तथा रेडियो इति माध्यमं सूचना-प्रसारणस्य सृजनात्मकतायाश्च सशक्तं साधनम् इति निरूपितवान्। अस्मिन् सन्दर्भे सः २२ फरवरी
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 13 फरवरीमासः (हि.स.)।

‘विश्व रेडियो दिवस’ इत्यस्य अवसरॆ प्रधानमन्त्री नरेन्द्र मोदी देशवासिभ्यः अभिनन्दनं प्रदत्तवान् तथा रेडियो इति माध्यमं सूचना-प्रसारणस्य सृजनात्मकतायाश्च सशक्तं साधनम् इति निरूपितवान्। अस्मिन् सन्दर्भे सः २२ फरवरी दिने प्रसारितव्यस्य ‘मन की बात’ कार्यक्रमस्य कृते जनताभ्यः सुझावान् दातुं प्रार्थितवान्।

प्रधानमन्त्री मोदी शुक्रवासरे ‘एक्स’ नाम सामाजिक-माध्यमे लिखितवान्— “विश्व रेडियो दिवसः तादृशस्य माध्यमस्य उत्सवस्य अवसरः अस्ति यत् दूरस्थ-ग्रामेभ्यः आरभ्य कोलाहल-पूर्ण-नगरेभ्यः पर्यन्तं जनानां विश्वसनीय-स्वररूपेण कार्यं करोति। बहुवर्षपर्यन्तं रेडियो समये सूचना प्रेषयति, प्रतिभां विकासयति, सृजनात्मकतां च प्रोत्साहयति। अयं दिवसः अस्य माध्यमेन सम्बद्धानां सर्वेषां जनानां प्रयत्नानां सम्मानस्य दिवसः अस्ति।”

स्वस्य लोकप्रिय-मासिक-कार्यक्रमस्य उल्लेखं कुर्वन् प्रधानमन्त्री रेडियो-सह स्वस्य सम्बन्धं प्रकटितवान्। तेन उक्तं यत् ‘मन की बात’ कार्यक्रमस्य माध्यमेन सः रेडियोस्य तादृशीं अद्भुत-क्षमतां प्रत्यक्षतया अनुभूतवान्, या राष्ट्रस्य सामाजिक-शक्तिं एकत्र संयोजयितुं प्रकाशयितुं च समर्था अस्ति।

अस्य मासस्य ‘मन की बात’ कार्यक्रमः रविवासरे २२ फरवरी दिने प्रसारितः भविष्यति। प्रधानमन्त्री नागरिकान् आहूतवान् यत् ते स्व-विचारान् सुझावान् च नमो-ऐप् अथवा माईजीओवी-इत्यादिषु विभिन्न-माध्यमेषु प्रेषयन्तु।

---------------

हिन्दुस्थान समाचार