प्रधानमन्त्री-नरेन्द्रमोदी बांग्लादेश-राष्ट्रीय-पक्षाध्यक्षाय तारिकरहमान-इत्यस्मै दूरभाषेण सम्पर्क्य संसदीय–निर्वाचन–विजये शुभाशयाः प्रेषितवान्
नवदिल्ली, १३ फववरीमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे दूरभाषेण बांग्लादेश-राष्ट्रीय-पक्षाध्यक्षेण तारिकरहमान-इत्यनेन सम्भाष्य, देशे सम्पन्नेषु संसदीय–निर्वाचनेषु विजयस्य कृते तस्मै हार्दिकाभिनन्दनं प्रदत्तवान्। प्रधानमन्त्रिणा सामाज
तारिक रहमान


नवदिल्ली, १३ फववरीमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे दूरभाषेण बांग्लादेश-राष्ट्रीय-पक्षाध्यक्षेण तारिकरहमान-इत्यनेन सम्भाष्य, देशे सम्पन्नेषु संसदीय–निर्वाचनेषु विजयस्य कृते तस्मै हार्दिकाभिनन्दनं प्रदत्तवान्।

प्रधानमन्त्रिणा सामाजिक–माध्यम–मञ्चे ‘एक्स’ इत्यत्र लेखेन एतस्य विवरणं प्रदत्तम्। तत्र सः अवदत् यत् बांग्लादेश–जनतायाः आकाङ्क्षाः पूरयितुं बीएनपी–अध्यक्षस्य यत्नान् प्रति स्वकीयाः शुभेच्छाः समर्थनं च अर्पितवान्। तथा च गभीरैः ऐतिहासिकैः सांस्कृतिकैश्च सम्बन्धैः युक्तयोः द्वयोः समीपवर्ती–देशयोः रूपेण, उभयोः देशयोः जनानां शान्त्यै प्रगतये समृद्धये च भारतस्य निरन्तर–प्रतिबद्धता पुनरुक्ता।

एतत् पूर्वमेव प्रधानमन्त्री सामाजिक–माध्यमेषु विजयस्य कृते बीएनपी–अध्यक्षं तारिक–रहमानं अभिनन्दितवान्। सः उक्तवान् यत् बांग्लादेशे सम्पन्ने संसदीय–निर्वाचने बीएनपी–दले निर्णायक–विजयं साधयितुं तारिक–रहमानाय हार्दिकमभिनन्दनं ददाति। एषः परिणामः बांग्लादेश–जनतायाः नेतृत्वे विश्वासस्य प्रतिबिम्बः अस्ति। भारतदेश: लोकतान्त्रिकस्य, प्रगतिशीलस्य, समावेशी–बांग्लादेशस्य च समर्थनं निरन्तरं करिष्यति।

उल्लेखनीयं यत् बीएनपी–नेता तारिक–रहमानः पूर्व–राष्ट्रपतेः जिया-उर्रहमानस्य तथा पूर्व–प्रधानमन्त्रिण्या: खालिदाजियाया: पुत्रः अस्ति। प्रायः सप्तदश–वर्षाणि निर्वाचने स्थित्वा, तारिक–रहमानस्य पत्नी जुबैदारहमान तथा पुत्र्या जाइमा इत्यनया सह लंदन–नगरात् गतवर्षस्य दिसम्बर–मासस्य पञ्चविंशतितमे दिने बांग्लादेशं प्रत्यागच्छत्।

हिन्दुस्थान समाचार / अंशु गुप्ता