प्रधानमन्त्री शनिवासरे असम–राज्ये आपत्कालीन–विमान–अवतरण–सुविधायाः उद्घाटनं करिष्यति
नवदिल्ली, १३ फरवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे असम–राज्यस्य भ्रमणाय गमिष्यति। सः डिब्रूगढ–जनपदे मोरान–बाइपास–मार्गे स्थितायाः आपत्कालीन–विमान–अवतरण–सुविधायाः (ईएलएफ) उद्घाटनं करिष्यति। तदनन्तरं प्रधानमन्त्री गुवाहाटी–नगरे ५,४५०
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, १३ फरवरीमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे असम–राज्यस्य भ्रमणाय गमिष्यति। सः डिब्रूगढ–जनपदे मोरान–बाइपास–मार्गे स्थितायाः आपत्कालीन–विमान–अवतरण–सुविधायाः (ईएलएफ) उद्घाटनं करिष्यति। तदनन्तरं प्रधानमन्त्री गुवाहाटी–नगरे ५,४५० कोटि–रूप्यकाधिक–मूल्यानां विविध–विकास–परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति।

प्रधानमन्त्री–कार्यालयेन अवगतं कृतं यत् प्रधानमन्त्री १४ फरवरीमासे प्रातः प्रायः १०:३० वादने डिब्रूगढ–जनपदे मोरान–बाइपास–स्थितायां आपत्कालीन–विमान–अवतरण–पट्टिकायां अवतरिष्यति। ततः सः तत्र युद्ध–विमानानां, परिवहन–विमानानां तथा हेलीकॉप्टर–यानानां वायवीय–प्रदर्शनं अवलोकयिष्यति। एषा सुविधा पूर्वोत्तर–भारतस्य प्रथमा अनेन प्रकारेण निर्मिता, या भारतीय वायुसेना–सहयोगेन सिद्धा अस्ति। आपदा–स्थितौ, प्राकृतिक–संकटेषु अथवा सामरिक–आवश्यकतासु राहत–उद्धार–कार्येषु एषा सुविधा अत्यन्तं सहायकाः भविष्यन्ति। अत्र ४० टन–पर्यन्तं भारयुक्तानि युद्ध–विमानानि तथा ७४ टन–पर्यन्तं भारयुक्तानि महदाकार–वस्तुवाहक–विमानानि अवतरणं उड्डयनं च कर्तुं समर्थानि सन्ति।

तदनन्तरं प्रधानमन्त्री मध्याह्ने प्रायः १ वादने कुमारभास्करवर्मासेतोः उद्घाटनं करिष्यति, यः ब्रह्मपुत्रनद्याः उपरि निर्मितः अस्ति। प्रायः ३,०३० कोटि–रूप्यक–व्यये निर्मितः अयं षट्–पंक्ति–युक्तः विशेष–संरचनायुक्तः सेतुः गुवाहाटी–नगरं उत्तर–गुवाहाटी–नगरेण सह संयोजयति। एषः पूर्वोत्तर–प्रदेशे प्रथमतया अनेन प्रकारेण निर्मितः सेतुः अस्ति, येन उभयोः नगरयोः मध्ये यात्राकालं न्यूनतमं कृत्वा प्रायः सप्त–निमेषाः एव अवशिष्यन्ते। भूकम्प–संभावनां दृष्ट्वा सेतौ विशेषाघात–सहन–प्रौद्योगिकी तथा सेतु–स्थितेः स्वचालित–निरीक्षण–व्यवस्था अपि स्थापिता अस्ति।

अपराह्णे प्रायः १:३० वादने प्रधानमन्त्री गुवाहाटी–नगरे लचित–घाटे ५,४५० कोटि–रूप्यकाधिक–मूल्यानां विविध–परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। एतेषु कामरूप–जनपदे अमिङ्गाँव–क्षेत्रे स्थापितं राष्ट्रीय–दत्तांश–केन्द्रम् (पूर्वोत्तर–क्षेत्र) अपि अन्तर्भवति। ८.५ मेगावाट–क्षमतायुक्तं एतत् अत्याधुनिकं दत्तांश–केन्द्रं विविध–शासकीय–विभागानां महत्त्वपूर्णाः अङ्कीय–सेवाः सञ्चालयिष्यति तथा आपदा–स्थितौ अन्येषां राष्ट्रीय–दत्तांश–केन्द्राणां वैकल्पिक–व्यवस्थारूपेण अपि कार्यं करिष्यति। एष: प्रयत्न: ‘डिजिटल–भारत’–सङ्कल्पानुसारं पूर्वोत्तर–प्रदेशस्य सूचना–प्रौद्योगिकी–व्यवस्थां सुदृढीकर्तुं सहायक: भविष्यति।

प्रधानमन्त्री भारतीयप्रबंधनसंस्थानम् गुवाहाटी, इत्यस्य अपि उद्घाटनं करिष्यति, येन पूर्वोत्तर–प्रदेशे उच्च–शिक्षायाः तथा प्रबन्धन–शिक्षायाः प्रोत्साहनं भविष्यति। अतिरिक्तरूपेण प्रधानमन्त्री ‘पीएम–ई–बस–सेवा–योजना’न्तर्गतं गुवाहाटी–नगरे (१००), नागपुर–नगरे (५०), भावनगर–नगरे (५०) तथा चंडीगढ–नगरे (२५) इति समष्ट्या २२५ विद्युत्–बस–यानानि हरित–ध्वजं दर्शयित्वा प्रवर्तयिष्यति। अस्य प्रयत्नस्य माध्यमेन चतुर्षु नगरेषु पञ्चाशत्–लक्षाधिक–नागरिकाणां कृते स्वच्छा, सुलभा तथा विश्वसनीया सार्वजनिक–परिवहन–सेवा उपलब्धा भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता